श्रवणम्

6.53.9
या ते॒ अष्ट्रा॒ गोओ᳚प॒शाघृ᳚णे पशु॒साध᳚नी ।
तस्या᳚स्ते सु॒म्नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । अष्ट्रा᳚ । गो॑ओ᳚पशा । आघृ᳚णे । प॒शु॒॑साध᳚नी ।
तस्याः᳚ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेआघृणे आगतदीप्ते पूषन् तेत्वदीयायाअष्ट्राआरागोओपशाउपसेरतइत्योपशाः गावः ओपशायस्याःतादृशी अतएवपशुसाधनीपशूनां- साध्यित्रीभवति तेत्वदीयायास्तस्याः संबंधिसुम्रंसुखंईमहे ॥ ९ ॥