अ॒भि नो॒ नर्यं॒ वसु᳚ वी॒रं प्रय᳚तदक्षिणम् ।
वा॒मं गृ॒हप᳚तिं नय ॥
वा॒मं गृ॒हप᳚तिं नय ॥
पदपाठः (Word-by-word)
अ॒भि । नः॒ । नर्य᳚म् । वसु᳚ । वी॒रम् । प्रय᳚त॑दक्षिणम् ।
वा॒मम् । गृ॒ह॑प᳚तिम् । न॒य॒ ॥
वा॒मम् । गृ॒ह॑प᳚तिम् । न॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेपूषन् नर्योनृभ्योहितंवसुधनं अभिप्राप्तुंवीरंदारुद्यस्यविशेषेणईरयितारं गमयितारं प्रयतदक्षिणंपूर्वमन्येभ्योपिदत्तधनं यद्वाप्रयतंशु- द्धंदक्षिणंधनंयस्यतादृशंवामंवननीयं एवंविधं गृहपतिंगृहस्थंनोस्मान्नयप्रापय ॥ २ ॥