श्रवणम्

6.53.5
परि᳚ तृन्धि पणी॒नामार᳚या॒ हृद᳚या कवे ।
अथे᳚म॒स्मभ्यं᳚ रन्धय ॥
▶ पदपाठः (Word-by-word)
परि᳚ । तृ॒न्धि॒ । प॒णी॒नाम् । आर᳚या । हृद᳚या । क॒वे॒ ।
अथ᳚ । ई॒म् । अ॒स्मभ्य᳚म् । र॒न्ध॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेकवे प्राज्ञ पूषन् पणीनांवणिजांलुब्धानांहृदयाहृदयानिकठिनानिआरयासूक्ष्मलोहाग्रोदंडः प्रतोदइत्यारेतिचाख्यायते तथापरितृन्धि परिविध्यहृद्गतंकाठिन्यमपनयेत्यर्थः अथानन्तरं ईमेनान्पणीन् अस्मभ्यंरंधय वशीकुरु ॥ ५ ॥