वि प॒थो वाज᳚सातये चिनु॒हि वि मृधो᳚ जहि ।
साध᳚न्तामुग्र नो॒ धियः᳚ ॥
साध᳚न्तामुग्र नो॒ धियः᳚ ॥
पदपाठः (Word-by-word)
वि । प॒थः । वाज᳚॑सातये । चि॒नु॒हि । वि । मृधः᳚ । ज॒हि॒ ।
साध᳚न्ताम् । उ॒ग्र॒ । नः॒ । धियः᳚ ॥
साध᳚न्ताम् । उ॒ग्र॒ । नः॒ । धियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेउग्र उद्गूर्णबलपूषन् पथोमार्गान्वाजसातयेन्नलाभायविचिनुहि शोधितान् कुरु यैः पथिभिर्गताधनंलभेमहि तादृशान्पथः पृथक्- कुर्वित्यर्थः मृधोबाधकान् तस्करादींश्चविजहि बाधस्व तथा नोस्माकं धियः कर्माणिअन्नलाभार्थंक्रियमाणानिसाधन्तां सिध्यन्तु सफला- निभवन्तु ॥ ४ ॥