त्वामिद्धि हवा᳚महे सा॒ता वाज᳚स्य का॒रवः᳚ ।
त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प᳚तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व᳚तः ॥
त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प᳚तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व᳚तः ॥
पदपाठः (Word-by-word)
त्वाम् । इत् । हि । हवा᳚महे । सा॒ता । वाज᳚स्य । का॒रवः᳚ ।
त्वाम् । वृ॒त्रेषु᳚ । इ॒न्द्र॒ । सत्॑प᳚तिम् । नरः᳚ । त्वाम् । काष्ठा᳚सु । अर्व᳚तः ॥
त्वाम् । वृ॒त्रेषु᳚ । इ॒न्द्र॒ । सत्॑प᳚तिम् । नरः᳚ । त्वाम् । काष्ठा᳚सु । अर्व᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
कारवःस्तोतारोवयं वाजस्यान्नस्यसातासातौसंभजनेनिमित्तभूतेसति हेइन्द्र त्वामिद्धि त्वामेव हवामहे स्तुतिभिराह्वयामः हेइन्द्र सत्पतिं सतांपालयितारं श्रेष्ठंत्वांनरः अन्येपिमनुष्याः वृत्रेष्वावरकेषुशत्रुषुसत्सुहवंते आह्वयन्ति तज्जयार्थं अपिच अर्वतोश्वस्यसंबन्धि- नीषुकाष्ठासुयत्राश्वःकान्त्वातिष्ठति तासुकाष्ठासुसंग्रामेषुयुद्धकामाश्चत्वामेवाह्वयन्ति अतोवयंत्वामेवाह्वयामइत्यर्थः ॥ १ ॥