ये ग᳚व्य॒ता मन᳚सा॒ शत्रु᳚माद॒भुर᳚भिप्र॒घ्नन्ति᳚ धृष्णु॒या ।
अध᳚ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त᳚मो भव ॥
अध᳚ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त᳚मो भव ॥
पदपाठः (Word-by-word)
ये । ग॒व्य॒ता । मन᳚सा । शत्रु᳚म् । आ॒॑द॒भुः । अ॒भि॒॑प्र॒घ्नन्ति᳚ । धृ॒ष्णु॒॑या ।
अध᳚ । स्म॒ । नः॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒॑पाः । अन्त᳚मः । भ॒व॒ ॥
अध᳚ । स्म॒ । नः॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒॑पाः । अन्त᳚मः । भ॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
येजनाः गव्यताशत्रूणांगाइच्छतामनसायुक्ताःसन्तःशत्रुंशातयितारं वैरिणंआदभुरहिंसिषुः येचधृष्णुयाधृष्णवः धृष्टाः सन्तः अस्मान- भिलक्ष्यप्रघ्नंति प्रकर्षेणहिंसंति हेमघवन् धनवन् गिर्वणोगिरांसंभक्तरिन्द्र अधस्म अस्मिन्काले तेभ्यःसकाशात् नोस्माकंतनूपाः तनूनां- शरीराणांरक्षिता सन् अन्तमः अन्तिकतमोभव ॥ १० ॥