बाध᳚से॒ जना᳚न्वृष॒भेव᳚ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ᳚चीषम ।
अ॒स्माकं᳚ बोध्यवि॒ता म᳚हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ॥
अ॒स्माकं᳚ बोध्यवि॒ता म᳚हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ॥
पदपाठः (Word-by-word)
बाध᳚से । जना᳚न् । वृ॒ष॒भा॑इ᳚व । म॒न्युना᳚ । घृषौ᳚ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ ।
अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒॑ध॒ने । त॒नूषु᳚ । अ॒प्॑सु । सूर्ये᳚ ॥
अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒॑ध॒ने । त॒नूषु᳚ । अ॒प्॑सु । सूर्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेऋचीषम ऋचासम ऋक्यादृशंरूपंप्रतिपादयतितादृग्रूपेन्द्र घृषौशत्रूणांघर्षकेबाधकेमीह्ळेसंग्रामेजनान् अस्मदीयान् शत्रून् वृषभेव वृषभेणेव बलवतामन्युनाक्रोधेनबाधसे बाधस्व तथा महाधने महतोधनस्यनिमित्तभूतेसंग्रामेच अस्माकमतितारक्षिताबोधि बुध्यस्व रक्षितृत्वेनात्मानंजानीहि रक्षकोभवेतियावत् किमर्थं तनूषुतनयेषुअप्सूदकेषुसूर्येचलब्धव्येषुसत्सु एतेषांलाभार्थंसूर्यस्यलाभसंदर्शनंतदर्थ- मित्यर्थः ॥ ४ ॥ चातुर्विंशिकेहनिमाध्यंदिनसवनेब्राह्मणाच्छंसिनःइन्द्रज्येष्ठंनआभरेतिप्रगाथोवैकल्पिकोनुरूपः सूत्रितंच—इन्द्रज्येष्ठंनआभरात्वासह- स्रमाशतमिति ।