श्रवणम्

6.46.3 समानपद
यः स᳚त्रा॒हा विच᳚र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् ।
सह᳚स्रमुष्क॒ तुवि᳚नृम्ण॒ सत्प᳚ते॒ भवा᳚ स॒मत्सु᳚ नो वृ॒धे ॥
▶ पदपाठः (Word-by-word)
यः । स॒त्रा॒॑हा । वि॑च᳚र्षणिः । इन्द्र᳚म् । तम् । हू॒म॒हे॒ । व॒यम् ।
सह᳚स्र॑मुष्क । तुवि᳚॑नृम्ण । सत्॑प᳚ते । भव᳚ । स॒मत्॑सु᳚ । नः॒ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः इन्द्रःसत्राहा महतांशत्रूणांहन्ता विचर्षणिर्विशेषेणसर्वस्यद्रष्टा तमिन्द्रंवयंहूमहे स्तुतिपदेराह्वयामः उत्तरार्धःप्रत्यक्षकृतः हेसहस्र- मुष्क सहस्रशेफ यांकांचस्त्रियंसंभवन्निन्द्रः भोगलोलुपतया स्वशरीरेपर्वणिपर्वणिशेफान् ससर्जेतिकौषीतकिभिराम्नातं तदभिप्रायेणेदंसं- बोधनं हेतुविनृम्ण बहुधन सत्पते सतांपालयितरिन्द्र समत्सुसंग्रामेषु नोस्माकंवृधेवर्धनायभव ॥ ३ ॥