श्रवणम्

6.46.7
यदि᳚न्द्र॒ नाहु᳚षी॒ष्वा{4} ओजो᳚ नृ॒म्णं च᳚ कृ॒ष्टिषु᳚ ।
यद्वा॒ पञ्च᳚ क्षिती॒नां द्यु॒म्नमा भ᳚र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । नाहु᳚षीषु । आ । ओजः᳚ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु᳚ ।
यत् । वा॒ । पञ्च᳚ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा᳚नि । पौंस्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र नाहुषीषु नहुषइतिमनुष्यनाम तत्संबन्धिनीषुकृष्टिषुप्रजासु आकारः समुच्चये यच्चओजोबलंनृम्णंधनंचविद्यते यद्वा यच्चपंचपं- चानांक्षितीनां निषादपंचमाश्चत्वारोवर्णाःपंचक्षितयः तेषांस्वरूपं द्युम्नंद्योतमानमन्नं तत्सर्वमस्मभ्यंआभराहर प्रयच्छ तथासत्रामहा- न्तिविश्वानिसर्वाणिपौंस्यानिबलानिचास्मभ्यंआहर ॥ ७ ॥