श्रवणम्

6.46.5
इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ᳚र{4}॒ ओजि᳚ष्ठं॒ पपु᳚रि॒ श्रवः᳚ ।
येने॒मे चि᳚त्र वज्रहस्त॒ रोद᳚सी॒ ओभे सु᳚शिप्र॒ प्राः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ज्येष्ठ᳚म् । नः॒ । आ । भ॒र॒ । ओजि᳚ष्ठम् । पपु᳚रि । श्रवः᳚ ।
येन᳚ । इ॒मे इति᳚ । चि॒त्र॒ । व॒ज्र॒॑ह॒स्त॒ । रोद᳚सी॒ इति᳚ । आ । उ॒भे इति᳚ । सु॒शि॒प्र॒ । प्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ज्येष्ठंप्रशस्यतमं ओजिष्ठंओजस्वितमं अतिशयेनबलकरं पपुरिपूरकंश्रवोन्नंनोस्मभ्यंआभर आहर प्रयच्छ हेचित्र चायनीय वज्रहस्त वज्रबाहो हेसुशिप्र शोभनहनुक एवंभूत हेइन्द्र येनान्नेनइमेपरिदृश्यमानेउभेरोदसीद्यावापृथिव्यौआप्राः आपूरयसि तदन्न- माभरेत्यन्वयः ॥ ५ ॥