इन्द्र᳚ त्रि॒धातु᳚ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् ।
छ॒र्दिर्य᳚च्छ म॒घव᳚द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ॥
छ॒र्दिर्य᳚च्छ म॒घव᳚द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । त्रि॒॑धातु᳚ । श॒र॒णम् । त्रि॒॑वरू᳚थम् । स्व॒स्ति॒॑मत् ।
छ॒र्दिः । य॒च्छ॒ । म॒घव᳚त्॑भ्यः । च॒ । मह्य᳚म् । च॒ । य॒वय᳚ । दि॒द्युम् । ए॒भ्यः॒ ॥
छ॒र्दिः । य॒च्छ॒ । म॒घव᳚त्॑भ्यः । च॒ । मह्य᳚म् । च॒ । य॒वय᳚ । दि॒द्युम् । ए॒भ्यः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्रिधातु त्रिप्रकारंत्रिभूमिकंत्रिवरूथंत्रयाणांशीतातपवर्षाणांवारकंस्वस्तिमत् अविनाशयुक्तं छर्दिःछदिष्मत् आच्छादनयुक्तं एवंगुणविशिष्टंशरणंगृहंमघवद्भ्यश्चमघंहविर्लक्षणंधनंतद्वद्भ्यश्चास्मदीयेभ्यः मह्यंभरद्वाजायचयच्छ देहि अपिचएभ्यःसकाशात् दिद्युं शत्रुप्रेरितं प्रद्योतमानमायुधंयवय पृथक्कुरु ॥ ९ ॥