श्रवणम्

6.46.11
अध᳚ स्मा नो वृ॒धे भ॒वेन्द्र᳚ ना॒यम᳚वा यु॒धि ।
यद॒न्तरि᳚क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव᳚स्ति॒ग्ममू᳚र्धानः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र᳚ । ना॒यम् । अ॒व॒ । यु॒धि ।
यत् । अ॒न्तरि᳚क्षे । प॒तय᳚न्ति । प॒र्णिनः᳚ । दि॒द्यवः᳚ । ति॒ग्म॑मू᳚र्धानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अधस्मतदानींनोस्माकंवृधेवर्धनायभव अपिचनायंयोस्माकंनयोनेतायुधियुद्धे तमपिअवरक्ष तदेत्युक्तंकदेत्यतआह पर्णिनः पक्ष- वन्तः तिग्ममूर्धानस्तीक्ष्णास्याः दिद्यवोदीप्ताः बाणाः यद्यदाअन्तरिक्षेव्योम्निपतयन्तिशत्रुभिर्विसृष्टाःपतन्ति तदानींवृधेभवेत्यन्वयः ॥ ११ ॥