श्रवणम्

6.46.12
यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म᳚ पितॄ॒णाम् ।
अध᳚ स्मा यच्छ त॒न्वे॒३॒᳚ तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः᳚ ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । शूरा᳚सः । त॒न्वः᳚ । वि॒॑त॒न्व॒ते । प्रि॒या । शर्म᳚ । पि॒तॄ॒णाम् ।
अध᳚ । स्म॒ । य॒च्छ॒ । त॒न्वे᳚ । तने᳚ । च॒ । छ॒र्दिः । अ॒चित्त᳚म् । य॒वय᳚ । द्वेषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्काले शूरासःशूराः शौर्यवन्तोयोद्धारः तन्वः स्वकीयानिशरीराणिवितन्वते विस्तारयन्ति स्वामिनोजयायशत्रूणांपुरतो- दर्शयन्ति तथायस्मिन्कालेप्रियाप्रियाणि शर्मशर्माणि स्थानानि पितॄणांजनकानांसंबन्धीनि तैरर्जितानीतियावत् एतानिचवितन्वते शत्रूणांपुरस्तात् विस्तारयन्ति परित्यजन्तीतियावत् अधस्मअस्मिन् कालेतन्वेशरीरायतनेतनयायच छर्दिः छादनंआयुधानांनिवारकं- कवचं अचित्तं शत्रुभिरज्ञातं यथाभवतितथायच्छ प्रयच्छ शत्रुज्ञानात्पूर्वमेवदेहोत्यर्थः अपिचद्वेषोद्वेष्टुन् शत्रुन् यावय तेभ्योवियोजय ॥ १२ ॥