श्रवणम्

6.46.2
स त्वं न᳚श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त᳚वा॒नो अ᳚द्रिवः ।
गामश्वं᳚ र॒थ्य᳚मिन्द्र॒ सं कि᳚र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒॑ह॒स्त॒ । धृ॒ष्णु॒॑या । म॒हः । स्त॒वा॒नः । अ॒द्रि॒॑वः॒ ।
गाम् । अश्व᳚म् । र॒थ्य᳚म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज᳚म् । न । जि॒ग्युषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेचित्र चायनीय वज्रहस्त वज्रबाहो अद्रिवः वज्रवन् यद्वा आदृणात्यनेनेत्यद्रिरशनिः तद्वन् एवंभूतइन्द्र धृष्णुयाधृष्णुः शत्रूणांधर्षयि- ता महोमहान् सतादृशस्त्वं स्तवानोस्माभिः स्तूयमानः सन् गांरथ्यंरथवाहनमश्वंचसंकिर सम्यक् प्रयच्छ जिग्युषे जितवते पुरुषाय भो- गार्थं प्तत्रामहत्प्रभूतं वाजंन अन्नमिव यथाशत्रून् जितवतेभोगारर्थंबह्वन्नंप्रयच्छसितद्वत् ॥ २ ॥ महाव्रतेनिष्केवल्येयः सत्राहेत्यादिसूक्तशेषः शंसनीयः सूत्र्यतेहि—यःसत्राहाविचर्षणिरितिशेषोऽयंतेअस्तुहर्यतइतिसूक्तेइति । चातु- र्विंशिकेहनिमाध्यंदिनसवनेयः सत्राहेतिप्रगाथोवैकल्पिकोनुरूपः सूत्रितंच—यःसत्राहाविचर्षणिःस्वादोरित्थाविषूवतइति ।