श्रवणम्

6.46.13 समानपद
यदि᳚न्द्र॒ सर्गे॒ अर्व᳚तश्चो॒दया᳚से महाध॒ने ।
अ॒स॒म॒ने अध्व᳚नि वृजि॒ने प॒थि श्ये॒ना{4} इ᳚व श्रवस्य॒तः ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । सर्गे᳚ । अर्व᳚तः । चो॒दया᳚से । म॒हा॒॑ध॒ने ।
अ॒स॒म॒ने । अध्व᳚नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्॑इ᳚व । श्र॒व॒स्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र महाधनेजेतव्यस्यमहतोधनस्यनिमित्तेमहतिसंग्रामेसर्गेउद्योगेसति असमनेविषमे अध्वनिमार्गेअर्वतोस्मदीयानश्वान् यद्यदा- चोदयासे प्रेरयसि वृजिनेकुटिलेपथिमार्गेअन्तरिक्षलक्षणेश्रवस्यतः श्रवः अन्नमामिषरूपंआत्मनइच्छतः श्येनान् इवयथाआमिषार्थिनः श्येनाः अन्तरिक्षेशीघ्रंगच्छन्ति तथास्मदीयानश्वान् यदात्वंशीघ्रंगमयसि तदानीमस्माकंतन्वेतनयायच छर्दिर्यच्छेतिपूर्वस्यामृचिसंबन्धः ॥ १३ ॥