श्रवणम्

6.20.1
द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव᳚सा पृ॒त्सु जना᳚न् ।
तं नः᳚ स॒हस्र᳚भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ॥
▶ पदपाठः (Word-by-word)
द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम᳚ । अ॒र्यः । त॒स्थौ । र॒यिः । शव᳚सा । पृ॒त्॑सु । जना᳚न् ।
तम् । नः॒ । स॒हस्र᳚॑भरम् । उ॒र्व॒रा॒॑साम् । द॒द्धि । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । वृ॒त्र॒॑तुर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योरयः पुत्ररूपंधनं शवसा बलेन पृत्सु संग्रामेषु अर्यः अरीन् शत्रून् जनान् अभितस्थौ आक्रामेत् तत्रदृष्टान्तः—द्यौर्न द्योतमानःसूर्यो- यथा भूम भूतानि आक्रामति तद्वत् हेसहसःसूनो बलस्यपुत्रेन्द्र त्वं तंपुत्रं नोस्मभ्यं दद्धि कीदृशं सहस्रभरं सहस्रस्यधनस्यभर्तारं उर्वरा सां सस्याढ्यानांभूमीनां सवितारं संभक्तारं वृत्रतुरं वृत्राणांशत्रूणां तरितारं तुर्वितारंवा ॥ १ ॥