तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम᳚हाः ।
राजा᳚भव॒न्मधु᳚नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्पु॒रां द॒र्त्नुमाव᳚त् ॥
राजा᳚भव॒न्मधु᳚नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्पु॒रां द॒र्त्नुमाव᳚त् ॥
पदपाठः (Word-by-word)
तूर्व᳚न् । ओजी᳚यान् । त॒वसः᳚ । तवी᳚यान् । कृ॒त॑ब्र᳚ह्मा । इन्द्रः᳚ । वृ॒द्ध॑म᳚हाः ।
राजा᳚ । अ॒भ॒व॒त् । मधु᳚नः । सो॒म्यस्य᳚ । विश्वा᳚साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव᳚त् ॥
राजा᳚ । अ॒भ॒व॒त् । मधु᳚नः । सो॒म्यस्य᳚ । विश्वा᳚साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा इन्द्रोविश्वासांसर्वासां पुरां असुरपुरीणां दर्त्नुं दारकंवज्रं आवत् प्रापत् तदा सोम्यस्य सोममयस्य मधुनः मधुररसस्य राजाभ- वत् स्वाम्यासीत् कीदृशः तूर्वन् हिंसकान् हिंसन् ओजीयान् अतिशयेनओजस्वी तवसोबलवतः तवीयान् बलवत्तरः कृतब्रह्मा कृतंब्रह्म स्तोत्रंयस्मैस्तोतृभिः सः अथवा कृतंदत्तंब्रह्मान्नंयेनस्तोतृभ्यःसः वृद्धमहाः वृद्धतेजाः एवंभूतइंद्रोराजाभवदिति ॥ ३ ॥