दि॒वो न तुभ्य॒मन्वि᳚न्द्र स॒त्रासु॒र्यं᳚ दे॒वेभि᳚र्धायि॒ विश्व᳚म् ।
अहिं॒ यद्वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ᳚जीषि॒न्विष्णु᳚ना सचा॒नः ॥
अहिं॒ यद्वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ᳚जीषि॒न्विष्णु᳚ना सचा॒नः ॥
पदपाठः (Word-by-word)
दि॒वः । न । तुभ्य᳚म् । अनु᳚ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य᳚म् । दे॒वेभिः᳚ । धा॒यि॒ । विश्व᳚म् ।
अहि᳚म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒॑वांस᳚म् । हन् । ऋ॒जी॒षि॒न् । विष्णु᳚ना । स॒चा॒नः ॥
अहि᳚म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒॑वांस᳚म् । हन् । ऋ॒जी॒षि॒न् । विष्णु᳚ना । स॒चा॒नः ॥
सायणभाष्यम् (Sayana Commentary)
दोवोन सूर्यायेव हेइन्द्र तुभ्यं सत्रासत्यमेव विश्वं व्याप्तं असुर्यमसुरत्वं बलं देवेभिः देवैः स्तोतृभिः अनुधायि व्यधायि अकारि स्तोत्रैः स्तूयमानोदवताबलवतीभवतीत्यर्थः हेऋजीषिन् विगतरससोमेन्द्र विष्णुनासचानः संगच्छमानस्त्वं षचसमवायेइतिधातोरूपं यद्येना- सूर्येण अपः उदकानि वव्रिवांसं परिवृण्वन्तं अहिमागत्यहन्तारं वृत्रमसुरं हन् अहन् अवधीः तद्बलं व्यधायीतिपूर्वेणसंबन्धः ॥ २ ॥