श्रवणम्

6.20.4
श॒तैर᳚पद्रन्प॒णय᳚ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒॑र्कसा᳚तौ ।
व॒धैः शुष्ण᳚स्या॒शुष᳚स्य मा॒याः पि॒त्वो नारि᳚रेची॒त्किं च॒न प्र ॥
▶ पदपाठः (Word-by-word)
श॒तैः । अ॒प॒द्र॒न् । प॒णयः᳚ । इ॒न्द्र॒ । अत्र᳚ । दश᳚॑ओणये । क॒वये᳚ । अ॒र्क॑सा᳚तौ ।
व॒धैः । शुष्ण᳚स्य । अ॒शुष᳚स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्नर्कसातौ अर्कोन्नंप्राप्यतेस्मिन्नित्यर्कसातिः युद्धं तस्मिन् दशोणये बहुहविष्के कवये मेधाविनः पंचम्यर्थेचतुर्थी हेइन्द्र त्वत्स- हायात् कुत्सात् बिभ्यतः पणयएतन्नामकासुराः शतैः शतसंख्याकैर्बलैः सार्धमपद्रन्नपाद्रवन् अपलायन्त अपिचेन्द्रः अशुषस्याशुष्कस्य सं- पूर्णबलस्येत्यर्थः शुष्णस्यैतन्नामकासुरस्य शत्रोर्मायाः कपटान्वधैर्हननसाधनैरायुधैः नप्रारिरेचीत् प्ररिक्तानतिरिक्तान्नाकरोत् पित्वोन्नस्य पितुरित्यन्ननामैतत् किंच नकिंचिदपि नप्रारिरेचीत् तदीयमन्नंसर्वमप्यपाहारयत् ॥ ४ ॥