श्रवणम्

6.20.5
म॒हो द्रु॒हो अप᳚ वि॒श्वायु᳚ धायि॒ वज्र᳚स्य॒ यत्पत᳚ने॒ पादि॒ शुष्ण᳚ः ।
उ॒रु ष स॒रथं॒ सार᳚थये क॒रिन्द्र॒ः कुत्सा᳚य॒ सूर्य᳚स्य सा॒तौ ॥
▶ पदपाठः (Word-by-word)
म॒हः । द्रु॒हः । अप᳚ । वि॒श्व॑आ᳚यु । धा॒यि॒ । वज्र᳚स्य । यत् । पत᳚ने । पादि᳚ । शुष्णः᳚ ।
उ॒रु । सः । स॒॑रथ᳚म् । सार᳚थये । कः॒ । इन्द्रः᳚ । कुत्सा᳚य । सूर्य᳚स्य । सा॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा शुष्णोसुरः वज्रस्यपतने पाते पादि अगच्छत् अम्रियतेत्यर्थः तदा महोमहतः द्रुहोद्रोग्धुः शुष्णस्य संबन्धि विश्वायु सर्वगतंबल- मितिशेषः अपधायि अपहितमकारि तिरस्कृतमित्यर्थः सइन्द्रः सारथये सारथिभूतायकुत्साय सरथं समानरथं सूर्यस्यसातौ भजने निमित्तभूते उरुविस्तीर्णंयथाभवतितथा कः अकरोत् तथाचोक्तं—कुत्सायेन्द्रोसुरंशुष्णंजिघांसुः कुत्समात्मनः । सारथिंकल्पयित्बास्यश- त्रुशुष्णमहंस्ततः ॥ कुत्सस्यरक्षांबहुलांचकारेत्यनयोच्यतेइति ॥ ५ ॥