दी॒दय॒दित्तुभ्यं॒ सोमे᳚भिः सु॒न्वन्द॒भीति᳚रि॒ध्मभृ᳚तिः प॒क्थ्य१॒᳚र्कैः ॥
पदपाठः (Word-by-word)
दी॒दय᳚त् । इत् । तुभ्य᳚म् । सोमे᳚भिः । सु॒न्वन् । द॒भीतिः᳚ । इ॒ध्म॑भृ᳚तिः । प॒क्थी । अ॒र्कैः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र आजौ संग्रामे तवह तवैव विश्वं व्याप्तं त्यत्तादृशंकर्म भवति कीदृशमिति तदुच्यते या यौ धुनीचुमुरी धुनिश्चचुमुरिश्चेत्येतन्नाम- कावसुरौ सिष्वप् अस्वापयः तावसुरौ सस्तः संग्रामेसुप्तवन्तौ मृतावित्यर्थः भूतार्थेव्यत्ययेनलट् द्विनीयोहशब्दः पादपूरणः तदनन्तरं हेइ- न्द्र तुभ्यंत्वदर्थंसुन्वन् सोमानभिषुण्वन् पक्थी पक्थवान् हवींषिपक्तवान् इध्मभृतिः इध्मानांभर्ता हर्तावा दभीतिर्नामराजर्षिः सोमेभिः सोमैःअर्कैर्हविर्लक्षणैरन्नैः दीदयदित् दीप्यतएव धुनिं चुमुरिं तस्मै जंघथेत्यर्थः त्वंनिदस्यंचुमुरिंधुनिंचेतिदर्शनात् ॥ १३ ॥
इमाउत्वेतिद्वादशर्चंषष्ठंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं नवमीएकादशीचवैश्वदेव्यौ तथाचानुक्रम्यते—इमाउद्वादशनवम्येकादश्यौवै- श्वदेव्याविति । उपहव्यनाम्न्येकाहे इदंसूक्तं मरुत्वतीयनिविद्धानं सूत्रितंच—इमाउत्वायएकइदितिमध्यंदिनइति इन्द्राविष्णोरुक्त्रान्ति- नाम्न्येकाहेपीदंमरुत्वतीयंनिविद्धानं सूत्रितंच—इमाउत्वाद्यौर्नयइन्द्रेतिमध्यंदिनइति । तृतीयेछन्दोमेपिमरुत्वतीयेइदंसूक्तं सूत्रितंच— प्रमन्दिनइमाउत्वेतिमरुत्वतीयमिति ।