श्रवणम्

6.20.12
त्वं धुनि᳚रिन्द्र॒ धुनि᳚मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः ।
प्र यत्स᳚मु॒द्रमति᳚ शूर॒ पर्षि᳚ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ॥
▶ पदपाठः (Word-by-word)
त्वम् । धुनिः᳚ । इ॒न्द्र॒ । धुनि᳚॑मतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव᳚न्तीः ।
प्र । यत् । स॒मु॒द्रम् । अति᳚ । शू॒र॒ । पर्षि᳚ । पा॒रय᳚ । तु॒र्वश᳚म् । यदु᳚म् । स्व॒स्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र धुनिः शत्रूणांकंपयितात्वं धुनिमतीः धुनिर्नामासुरोयासुनिरोधकतयाविद्यते ताः अपः उदकानि सीरान नदीरिव स्रवन्तीः प्र- वहन्तीः ऋणोः अगमयः धुनिंहत्वा तेननिरोधितान्युदकानिप्रवाहयतीत्यर्थः हेशूर वीरेन्द्र यद्यदा समुद्रमति अतिक्रम्यप्रपर्षि प्रतीर्णोभ- वसि तदा समुद्रपारेतिष्ठन्तौ तुर्वशंयदुंच पारय पारयः समुद्रमतारयः ॥ १२ ॥