श्रवणम्

6.20.9 समानपद
स ईं॒ स्पृधो᳚ वनते॒ अप्र᳚तीतो॒ बिभ्र॒द्वज्रं᳚ वृत्र॒हणं॒ गभ᳚स्तौ ।
तिष्ठ॒द्धरी॒ अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र᳚मृ॒ष्वम् ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । स्पृधः᳚ । व॒न॒ते॒ । अप्र᳚ति॑इतः । बिभ्र᳚त् । वज्र᳚म् । वृ॒त्र॒॑हन᳚म् । गभ᳚स्तौ ।
तिष्ठ᳚त् । हरी॒ इति᳚ । अधि᳚ । अस्ता᳚॑इव । गर्ते᳚ । व॒चः॒॑युजा᳚ । व॒ह॒तः॒ । इन्द्र᳚म् । ऋ॒ष्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गभस्तौ हस्ते वृत्रहणं वृत्राणांशत्रूणांहन्तारं वज्रं स्वकीयमायुधं बिभ्रद्धारयन् अप्रतीतः शत्रुभिरप्रतिगतः सइन्द्रः स्पृधः स्पर्धमानान् ईं इमान् वृत्रप्रभृतीन् शत्रून् वनते हन्ति हरी स्वकीयावश्वौ अधितिष्ठत् आरोहति तत्रदृष्टान्तः—अस्तेव गर्तेयथाक्षेप्ताशूरः रथेअधितिष्ठ- त् तद्वत् तथावचोयुजा वचोमात्रेणयुज्यमानौ यद्वा स्तोतॄणां स्तुतिभिः युज्यमानौ तौ हरीच ऋष्वं महान्तं इन्द्रं वहतः ॥ ९ ॥