स॒नेम॒ ते॑व᳚सा॒ नव्य᳚ इन्द्र॒ प्र पू॒रवः᳚ स्तवन्त ए॒ना य॒ज्ञैः ।
स॒प्त यत्पुर॒ः शर्म॒ शार᳚दी॒र्दर्द्धन्दासी᳚ः पुरु॒कुत्सा᳚य॒ शिक्ष᳚न् ॥
स॒प्त यत्पुर॒ः शर्म॒ शार᳚दी॒र्दर्द्धन्दासी᳚ः पुरु॒कुत्सा᳚य॒ शिक्ष᳚न् ॥
पदपाठः (Word-by-word)
स॒नेम᳚ । ते॒ । अव᳚सा । नव्यः᳚ । इ॒न्द्र॒ । प्र । पू॒रवः᳚ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः ।
स॒प्त । यत् । पुरः᳚ । शर्म᳚ । शार᳚दीः । दर्त् । हन् । दासीः᳚ । पु॒रु॒॑कुत्सा᳚य । शिक्ष᳚न् ॥
स॒प्त । यत् । पुरः᳚ । शर्म᳚ । शार᳚दीः । दर्त् । हन् । दासीः᳚ । पु॒रु॒॑कुत्सा᳚य । शिक्ष᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र ते त्वदीयेन अवसा रक्षणेन नव्योनवीयोनवतरं त्वयादीयमानंधनं सनेम वयंस्तो तारोभजेमहि पूरवोमनुष्याः स्तोतारः एना अनेनस्तोत्रेण युक्तैर्यज्ञैः प्रस्तवन्ते त्वांस्तुवन्ति यद्यस्मात्कारणात् दासीः कर्मणामुपक्षपयित्रीः शत्रुप्रजाः हन् घ्नन् हिंसन् पुरुकुत्साय एत- न्नामकायराज्ञे शिक्षन् धनानिप्रयच्छन् हेइन्द्र त्वं शारदीः शरन्नाम्नोसुरस्यसंबन्धिनीः सप्त सप्तसंख्याकाः पुरः पुरी शर्म शर्मणावज्रेण दर्त् विदारितवानसि तस्मात्कारणात्त्वांस्तोतारः स्तुवन्तीत्यर्थः ॥ १० ॥