श्रवणम्

6.20.7
वि पिप्रो॒रहि᳚मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव᳚सा॒ न द᳚र्दः ।
सुदा᳚म॒न्तद्रेक्णो᳚ अप्रमृ॒ष्यमृ॒जिश्व᳚ने दा॒त्रं दा॒शुषे᳚ दाः ॥
▶ पदपाठः (Word-by-word)
वि । पिप्रोः᳚ । अहि᳚॑मायस्य । दृ॒ळ्हाः । पुरः᳚ । व॒ज्रि॒न् । शव᳚सा । न । द॒र्द॒रिति᳚ दर्दः ।
सु॑दा᳚मन् । तत् । रेक्णः᳚ । अ॒प्र॒॑मृ॒ष्यम् । ऋ॒जिश्व᳚ने । दा॒त्रम् । दा॒शुषे᳚ । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवज्रिन् वज्रवन्निन्द्र त्वं अहिमायस्य अहंत्र्योमायायस्य पिप्रोरेतन्नाम्नोसुरस्यसंबन्धिनीः दृह्ळाः दृढानि पुरः प्राकारादीनिदुर्गाणि शवसा बलेन विदर्दः विदारितवानसि नेतिपादपूरणः त्वंपिप्रोर्नृमणःप्रारुजःपुरः । शतंपूर्भिरायसीभिर्निपाहीतिदर्शनात् । अपिच हेसुदा- मन् शोभनदानेन्द्र त्वं दात्रं हविर्लक्षणं धनं दाशुषे दत्तवते ऋजिश्वने एतन्नामकायराजर्षये अप्रमृष्यं केनाप्यबाध्यं तत्तस्यस्व भूतंरेक्णो- धनं दाः अदाः दत्तवानसि ॥ ७ ॥