श्रवणम्

6.20.8
स वे᳚त॒सुं दश᳚मायं॒ दशो᳚णिं॒ तूतु᳚जि॒मिन्द्र᳚ः स्वभि॒ष्टिसु᳚म्नः ।
आ तुग्रं॒ शश्व॒दिभं॒ द्योत᳚नाय मा॒तुर्न सी॒मुप᳚ सृजा इ॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
सः । वे॒त॒सुम् । दश᳚॑मायम् । दश᳚॑ओणिम् । तूतु᳚जिम् । इन्द्रः᳚ । स्व॒भि॒ष्टि॑सु᳚म्नः ।
आ । तुग्र᳚म् । शश्व᳚त् । इभ᳚म् । द्योत᳚नाय । मा॒तुः । न । सी॒म् । उप᳚ । सृ॒ज॒ । इ॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वभिष्टिसुम्रः सुष्द्टुअभ्येषणीयान्यभिगम्यानिसुम्रानिसुखानियेनदेयानिसइन्द्रः दशमायं बहुवंचनं वेतसुं वेतसुनामकमसुरं दशोणिं एतन्नामकंच तूतुजिं तूतुजिनामकंच आअपिच तुग्रं तुग्रनामकमसुरं तथा इभमेतन्नामकमसुरंच इयध्यै एतुं द्योतनाय एतत्संज्ञायराज्ञे श- श्वदुपसृजउपासृजत् वशीचकार तत्रदृष्टान्तः—मातुर्न मातुर्जनन्याइव पुत्रं यथामात्रेपुत्रावशीभवन्तितद्वद्वशंचकारेत्यर्थः सीमितिपाद- पूरणः ॥ ८ ॥