त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय᳚ ।
परा॒ नव᳚वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द᳚दाथ॒ स्वं नपा᳚तम् ॥
परा॒ नव᳚वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द᳚दाथ॒ स्वं नपा᳚तम् ॥
पदपाठः (Word-by-word)
त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने᳚ । का॒व्याय᳚ ।
परा᳚ । नव᳚॑वास्त्वम् । अ॒नु॒॑देय᳚म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा᳚तम् ॥
परा᳚ । नव᳚॑वास्त्वम् । अ॒नु॒॑देय᳚म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र पूर्व्यः पुरातनस्त्वं काव्याय कविपुत्राय उशने उशनसे भार्गवाय वरिवस्यन् धनमिच्छन् वृधोभूः स्तोतॄणांवर्धकोभवसि अनुदे- यमनुदातव्यंधनं नववास्त्वं एतन्नामकंअसुरं पराहत्य स्वंस्वकीयमौशनसं नपातं युद्धेशत्रुभिर्ग्रुहीतंपुत्रं महे महते पित्रे पालयितव्यायोश- नसे पराददाथ तस्यशत्रुंहत्वा प्रकर्षेणदत्तवानसि ॥ ११ ॥