पञ्चमं मण्डलम् - सूक्तम् 10

7 ऋचः

ऋषिः: गय आत्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.10 - सम्पूर्णम्

1 / 7
ऋक्: 5.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
5.10.1 समानपद
अग्न॒ ओजि᳚ष्ठ॒मा भ᳚र द्यु॒म्नम॒स्मभ्य᳚मध्रिगो ।
प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । ओजि᳚ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य᳚म् । अ॒ध्रि॒गो॒ इत्य᳚ध्रि॑गो ।
प्र । नः॒ । रा॒या । परी᳚णसा । रत्सि᳚ । वाजा᳚य । पन्था᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ओजिष्ठं बलवत्तमं द्युम्नं द्योततेकटकमुकुटादिरुपेणसर्वत्रप्रकाशतइतिद्युम्नं धनं अस्मभ्यं आभर आहर हेअध्रिगो अधृतगमन अधृतमप्रतिहतं ग्मनंयस्येत्यधृताः अनिवारितागावोरश्मयोयस्येतिवाअधृतगुः अध्रिगुः तस्यसंबोधनं नःअस्मान् परीणसा परितोव्यापकेन राया धनेन प्रकर्षेणयोजय वाजाय अन्नलाभाय पंथां पंथानं अन्नस्यमत्समीपप्राप्तिसाधनंमार्गंरत्सि विलिख कुर्वित्यर्थः ॥ ओजिष्ठं उव्जआर्जवे उब्जेर्बलेबलोपश्चेत्यसुन् बलोपश्च गुणः ओजः तदस्यास्तीत्यर्थे अस्मायामेधेत्यादिनाविनिः अतिशायनेइतिइष्ठन् विन्मतोर्लुक् टेरितिटिलोपः नित्त्वादाद्युदात्तः । द्युम्नं द्युतदीप्तावित्यस्माद्धातोः सुम्नद्युम्ननिम्नेत्यादिना कप्रत्ययः मकारश्चान्तादेशोनिपात्यते प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो अधृतशब्दस्य अध्रिआदेशः गोशब्दस्योपसर्जनह्रस्वत्वं आमंत्रितस्यनिघातः । परीणसा णसकौटिल्ये अत्रव्याप्त्युअर्थः धातूनामनेकार्थत्वात् अस्मात्संपदादिलक्षणोभावेक्विप् परिप्राप्तं नस् व्यापनंयस्यतत्तथोक्तं उपसर्गादसमासेपीतिणत्वं अत्रप्रापणक्रिययायुक्तस्यपरेःणसतिंप्रतिउपसर्गसंज्ञानास्ति यक्त्रियायुक्तास्तंप्रतिगत्युपसर्गसंज्ञकाइतिन्यायात् अतः कथंणत्वं एवंतर्हिउपसर्गाद्बहुलमितिवचनात् णसोणत्वं भविष्यति निपातस्यचेतिपूर्वपदस्यदीर्घः बहुव्रीहौप्रकृत्येतिपूर्व पदमकृतिस्वरत्वम् । रत्सि रदविलेखने भौवादिकः बहुलंछन्दसीतिशपोलुक् पादादित्वान्निघाताभावः । पंथां द्वितीयैकवचने इतोत्सर्वनामस्थानेइत्यत् नकारलोपश्छान्दसः पथिमथोःसर्वनामस्थानेइत्याद्यदात्तत्वम् ॥ १ ॥

5.10.2
त्वं नो᳚ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष᳚स्य मं॒हना᳚ ।
त्वे अ᳚सु॒र्य१॒᳚मारु᳚हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा᳚ । दक्ष᳚स्य । मं॒हना᳚ ।
त्वे इति᳚ । अ॒सु॒र्य᳚म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अद्भुतसामर्थ्यातिशयेनसर्वेषामाश्चर्यभूत त्वं नोस्माकं क्रत्वा कर्मणा अस्मात्कृतेनयज्ञादिव्यापारेणप्रीतःसन् दक्षस्य बलस्य धनस्यवा मंहना मंहनंनामदानंकुर्वितिशेषः यतःकारणात् त्वे त्वयि असुर्यं असुरघ्नंबलं आरुहत् आरूढं अतः मित्रोन सूर्यइव यज्ञियः यज्ञार्हस्त्वं क्राणायज्ञघातकराक्षसापनोदनलक्षणानिकर्माणिकुर्वाणोभव ॥ अद्भुत आमंत्रितस्याद्युदात्तत्वम् । क्रत्वा डुकृञ् करणे कृञःकतुरितिकतुप्रत्ययः ककारोगुणवृद्धिप्रतिषेधार्थः यणादेशः क्रतुः कर्मतृतीयैकवचनेजसादिषुवावचनमितिवचनान्नाभावाभावः । दक्षस्य दक्षगतिहिंसनयोः दक्ष्यन्तेहिंस्यन्तेअनेनशत्रवइतिदक्षंबलं करणाधिकरणयोश्चेतिघञ् ञित्त्वादाद्युदात्तः । मंहना मंहतिर्दानकर्मा सुपांसुलुगित्याकारादेशः । त्वे सुपांसुलुगित्यादिनाङेशेआदेशः सुवादेशत्वादनुदात्तः त्वशब्दःप्रत्ययस्वरेणान्तोदात्तः एकादेशउदात्तेनोदात्तइत्येकादेशस्योदात्तत्वम् । आरुहत् रुहेर्धातोर्लुङि कृमृदृरुहिभ्यश्छन्दसीतिविकरणस्यलुक् यणादेशः सुपांसुलुगित्यात्वं चितइत्यन्तोदात्तः । यज्ञियः यज्ञमर्हतीत्यस्मिन्नर्थे यज्ञर्त्विग्भ्यांघखञावितिघः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

5.10.3
त्वं नो᳚ अग्न एषां॒ गयं᳚ पु॒ष्टिं च᳚ वर्धय ।
ये स्तोमे᳚भि॒ः प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय᳚म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।
ये । स्तोमे᳚भिः । प्र । सू॒रयः᳚ । नरः᳚ । म॒घानि᳚ । आ॒न॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं एषां नः त्वत् स्तावकानामस्माकं गयं गम्यतेनिवासायेतिगयंगृहं गीयते स्तुयतइतिवागयंधनं पुष्टिंच गवादिविषयांपुष्टिंचवर्धय वृद्धिंप्रापय येलोकेप्रसिद्धाः सूरयोलब्धवर्णानरःस्तोतारोमनुष्याः स्तोमेभिः स्तोमैःस्तोत्रैः मघानिमंहनीयानिगवादिधनानि यथाप्रानशुःप्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयं गृहपक्षेगमेरध्र्यादयश्चेतियत्प्रत्ययान्तो- मकारलोपश्चनिपात्यते धनपक्षे गास्तुतौ अस्मात् यत्प्रत्ययोह्रस्वत्वं यतोनावइत्याद्युदात्तत्वम् । पुष्टिम् पुषपुष्टौ स्त्रियांक्तिन् छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः ष्टुञ् स्तुतौ अर्तिस्तुसुहुइत्यादिनामन् गुणः नित्त्वादाद्युदात्तः । आनशुः अशूव्याप्तौ लिट् द्विर्वचनं हलादिशेषः अतआदेरित्यात्वं अश्नोतेश्चेतिनुडागमण् निघातः ॥ ३ ॥

5.10.4
ये अ᳚ग्ने चन्द्र ते॒ गिरः᳚ शु॒म्भन्त्यश्व᳚राधसः ।
शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द्येषां᳚ बृ॒हत्सु᳚की॒र्तिर्बोध᳚ति॒ त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः᳚ । शु॒म्भन्ति᳚ । अश्व᳚॑राधसः ।
शुष्मे᳚भिः । शु॒ष्मिणः᳚ । नरः᳚ । दि॒वः । चि॒त् । येषा᳚म् । बृ॒हत् । सु॒॑की॒र्तिः । बोध᳚ति । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने चन्द्र सर्वेषांप्राणिनामाह्ळादकर येनरः तेगिरः त्वत्संबन्धिस्तोत्ररूपावाचः सुंभन्ति शोभनाःकुर्वन्ति ते अश्वराधसः अश्वधनाभवन्ति एतेनसर्वसमृद्धिरुपलक्ष्यते किं च शुष्मिणःबलवन्तःसन्तः शुष्मेभिःशुष्मैः स्वकीयैर्बलैः सत्वैः शत्रुशोषकाभवन्ति येषां त्वत्संबन्धिनंस्तवंकुर्वतां दिवश्चित् आकाशादपि बृहत् महतीसुकीर्तिर्भवति सर्वदिगन्तरालवर्तिनीकीर्तिर्भवतीत्यर्थः एवंविधंत्वां गयः त्मना आत्मना स्वयमेवबोधति बोधयति ॥ शुंभंति शुभशुंभदीप्तौ तुदादिः पादादित्वान्निघाताभावः लसार्वधातुकानुदात्तत्वेप्राप्ते सतिशिष्टत्वाद्विकरणस्वरएव । अश्वराधसः अशूव्याप्तौ अशूप्रुषीत्यादिनाक्वन् अश्नुतेव्याप्नोत्यध्वानमित्यश्वः नित्त्वादाद्युदात्तः राधसाधसंसिद्धौ असुन् राध्नुवन्ति साधयन्ति अनेन धर्मादीनीतिराधोधनम् बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । बृहत् वृहवृहिवृद्धौ शतृ ङीपोलोपश्छान्दसः प्रत्ययस्वरः । बोधति बुधअवगमने ण्यन्तात् शपिकृते तस्यछन्दस्युभयथेतिसार्वधातुदसंज्ञायांणिलोपः यद्रृत्तान्नित्यमितिनिघाताभावः धातुस्वरेणाद्युदात्तः । त्मना मंत्रेष्वाङ्चादेरात्मनइत्याकारलोपः ॥ ४ ॥

5.10.5
तव॒ त्ये अ᳚ग्ने अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या ।
परि᳚ज्मानो॒ न वि॒द्युतः᳚ स्वा॒नो रथो॒ न वा᳚ज॒युः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । अ॒ग्ने॒ । अ॒र्चयः᳚ । भ्राज᳚न्तः । य॒न्ति॒ । धृ॒ष्णु॒॑या ।
परि᳚॑ज्मानः । न । वि॒॑द्युतः᳚ । स्वा॒नः । रथः᳚ । न । वा॒ज॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने धृष्णुया धृष्णवः अत्यन्तप्रगल्भाः भ्राजन्तः दीप्यमानाः त्ये ते प्रसिद्धाः तव अर्चिषः त्वदीयारश्मयः यन्ति सर्वतोगच्छन्ति कथमित्र परिज्मानः परितोगंत्र्यः सर्वतोव्याप्ताः विद्युतोन अचिरप्रभाइवअनेनप्रकाशातिशयउक्तः स्वानः शब्दायमानः स्थोन रथइव अनेनार्चिषां स्वनाधिक्यमुक्तं वाजयुर्न अन्नकामइव अन्नार्थंयुद्धेषुशत्रुविजयाययथाप्रवर्ततेतद्वदित्यर्थः अनेनाअहुतिविषयोभिलाषउक्तः ॥ यंति इण् गतौ । धृष्णुया ञिधृषाप्रागल्भ्ये त्रसिगृधिधृषीत्यादिनाक्नुप्रत्ययः आदितश्चेतीट्प्रतिषेधः बहुवचने सुपांसुलुगित्यादिनायाजादेशः चितइत्यंतोदात्तत्वम् । परिज्मानः अजव्रजगतौ परिपूर्वाद्धातोः अन्येभ्योपिदृश्यन्तइतिमनिन् अकारलोपश्छान्दसः नित्त्वाद्युदात्तः । वाजयुः वाजंआत्मनइच्छतीतिक्यच् नच्छंदस्यपुत्रस्येतिईत्वदीर्घयोःप्रतिषेधः क्याच्छन्दसीत्युप्रत्ययः ॥ ५ ॥

5.10.6
नू नो᳚ अग्न ऊ॒तये᳚ स॒बाध᳚सश्च रा॒तये᳚ ।
अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒ आशा᳚स्तरी॒षणि᳚ ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये᳚ । स॒॑बाध᳚सः । च॒ । रा॒तये᳚ ।
अ॒स्माका᳚सः । च॒ । सू॒रयः᳚ । विश्वाः᳚ । आशाः᳚ । त॒री॒षणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्माकं नु क्षिप्रं ऊतये रक्षायै भव सबाधसश्च द्रारिद्मनिमित्तबाधसहितस्यच धनस्य रातये दानायभव किंच अस्माकासः अस्माकाः पुत्रमित्रादयः सूरयः स्तोतारः विश्वाः सर्वाः आशाः दिशः तरीषणि तासांतरणेक्षमाभवन्तु अथवा आशाःकामाः अयमर्थः स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनंकुर्वित्यर्थः ॥ सबाधसः बाधेरसुन् बाधसासहवर्ततेइति सबाधाः वोपसर्जनस्येतिसहस्यसभावः कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये रादाने क्तिन् मंत्रेवृषेषपचमनविदभूवीराउदात्तइतिअन्तोदात्तः । अस्माकासः तस्मिन्नणिचयुष्माकास्माकावितिअणिकृते अस्माकादेशः छान्दसत्वादणोलोपः बहुवचने असुगागमः षष्ठीबहुवचनेमध्योदात्तत्वेनदृष्टत्वात् तथाविधमादेशमत्रापिकृतवानाचार्यः । विश्वाः विशेःअशूप्रुषीत्यादिनाक्वन् नित्त्वादाद्युदात्तः । तरीषणि तॄप्लवनतरणयोः कॄतॄभ्यामीषन्नितीषन् बहुलवचनत्वे अलोपाभावः अन्तोदात्तश्छान्दसः ॥ ६ ॥

5.10.7
त्वं नो᳚ अग्ने अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ᳚र ।
होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्य॒ः स्तव᳚से च न उ॒तैधि᳚ पृ॒त्सु नो᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा᳚नः । आ । भ॒र॒ ।
होतः᳚ । वि॒भ्व॒॑सह᳚म् । र॒यिम् । स्तो॒तृ॑भ्यः᳚ । स्तव᳚से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्॑सु । नः॒ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अंगिरः कार्यकारणयोरभोदोपचारात् अंगिरसांप्रकृतिभूतोप्यग्निः अंगिराइत्युच्यते हेअंगिरः पूवैर्महर्षिभिःस्तुतः स्तवानः इदानींतनैश्च स्तूयमानस्त्वं विश्वसहं महतामप्यभिभवितारंअभिभव हेतुत्वादभिभवितृधनमित्युच्यते रयिं धनं नोस्माकं आभर आहर हेहोतः देवानामाह्वातः स्तोतृभ्योनोस्मभ्यं स्तवसे स्तोतुं सामर्थ्यंचप्रयच्छ उतापिच पृत्सुयुद्धेषु नोस्माकं वृधे समृद्धये एधि भव ॥ स्तवानः ष्टुञ् स्तुतौ शानचि कर्मणि व्यत्ययेनशप्प्रत्ययः आद्युदात्तश्च । विभ्वासहं संहितायांविभूनामितिषष्ठी बहुवचनस्य- सुपामित्यादिनाआदारादेशः विपूर्वद्भवतेरगागमे अन्येषामपिदृश्यतइतिदीर्घत्वंचमत्वा अवग्रहंकुर्वंति तदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ष्टुञ् स्तुतौ तुमर्थेअसेन्प्रत्ययः नित्त्वादाद्युदात्तः ॥ ७ ॥

जनस्यगोपाइतिषळृचमेकादशंसूक्तं आत्रेयस्यसुतंभरस्यार्षं जागतमाग्नेयं तथाचानुक्रान्तम्-जनस्यषट् सुतंभरोजागतमिति । प्रातरनुवाकेआश्विनशस्त्रेचास्यसूक्तस्यविनियोगः जनस्यगोपास्त्वामग्नऋतायवइति ।