प्र शर्धा᳚य॒ प्रय᳚ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि᳚ष्टये॒ धुनि᳚व्रताय॒ शव᳚से ॥
पदपाठः (Word-by-word)
प्र । शर्धा᳚य । प्र॑य᳚ज्यवे । सु॒॑खा॒दये᳚ । त॒वसे᳚ । भ॒न्दत्॑इ᳚ष्टये । धुनि᳚॑व्रताय । शव᳚से ॥
सायणभाष्यम् (Sayana Commentary)
प्रयन्तु प्रगच्छन्तु गिरिजाः वाचिनिष्पन्नामतयस्तुतयः कस्मै वस्तुभ्यं वचनव्यत्ययः विष्णवेव्याप्तायेन्द्राय विष्णवेवा मरुत्वते मरु- द्भिस्तद्वते कस्यस्तुतयइत्युच्यते एवयामरुत् एतन्नामकस्यऋषेः षष्ठ्यालुक् अथवा यमृषिर्गिरिजाः स्तुतेर्जनयिताभवति उत्तरार्धेमरु- त्स्तुतिः किंच प्रयन्तुस्तुतयः कस्मै शर्धाय बलाय मारुताय इतरत्सर्वंबलविशेषणं प्रयज्यवे प्रकर्षेणयष्टव्याय सुखादयेशोभनाभरणाय खादिराभरणविशेषः हस्तेषुखादिश्चपत्सुखादयइतिचश्रुतेः तवसे बलवते भंददिष्टये स्तुतिरूपाइष्टिर्यस्यतत् भन्ददिष्टि तस्मै धुनिव्रताय मेघानांचालनं कर्मयस्य तादृशाय शवसे गमनवते ॥ १ ॥