पञ्चमं मण्डलम् - सूक्तम् 22

4 ऋचः

ऋषिः: विश्वसामात्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.22 - सम्पूर्णम्

1 / 4
ऋक्: 5.22.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
5.22.1
प्र वि᳚श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे ।
यो अ᳚ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत᳚मो वि॒शि ॥
▶ पदपाठः (Word-by-word)
प्र । वि॒श्व॒॑सा॒म॒न् । अ॒त्रि॒॑वत् । अर्च᳚ । पा॒व॒क॑शो᳚चिषे ।
यः । अ॒ध्व॒रेषु᳚ । ईड्यः᳚ । होता᳚ । म॒न्द्र॑त᳚मः । वि॒शि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविश्वसामन् ऋषेःसंबोधनमेतत् त्वं अत्रिवत् अत्रिरिवपावकशोचिषे शोधकदीप्तये तस्मै अग्नये प्रार्च प्रगाय योग्निःअध्वरेषुईड्यःसर्वैर्य- ज्वभिःस्तुत्यः होता देवानामाह्वाता विशि जने मन्द्रतमः स्तुत्यतमः ॥ १ ॥

5.22.2 समानपद
न्य१॒᳚ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म् ।
प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य᳚चस्तमः ॥
▶ पदपाठः (Word-by-word)
नि । अ॒ग्निम् । जा॒त॑वे᳚दसम् । दधा᳚त । दे॒वम् । ऋ॒त्विज᳚म् ।
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य᳚चः॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमानाः जातवेदसं जातप्रज्ञं जातधनंवा देवं द्योतमानं ऋत्विजं ऋतुयष्टारं अग्निं निदधात निधत्त किंच देवव्यचस्तमः देवानामाप्ततमोयज्ञोयज्ञसाधनं अस्माभिर्दीयमानंहविः आनुषक् अनुषक्तंयथाभवतितथा अद्यास्मिन्नहनि तमग्निंप्रैतु प्रयच्छतु ॥ २ ॥

5.22.3 समानपद
चि॒कि॒त्विन्म᳚नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚ ।
वरे᳚ण्यस्य॒ ते॑व᳚स इया॒नासो᳚ अमन्महि ॥
▶ पदपाठः (Word-by-word)
चि॒कि॒त्वित्॑म᳚नसम् । त्वा॒ । दे॒वम् । मर्ता᳚सः । ऊ॒तये᳚ ।
वरे᳚ण्यस्य । ते॒ । अव᳚सः । इ॒या॒नासः᳚ । अ॒म॒न्म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने चिकित्वित् जानन्मनोयस्यासौचिकित्विन्मनाः तं देवं त्वा त्वां इयानासः उपगच्छन्तोमर्तासोमनुष्यावयं ऊतये रक्षणार्थं वरेण्यस्य संभजनीयस्य ते तव अवसः अवसे तर्पणाय अमन्महि स्तुमः ॥ ३ ॥

5.22.4
अग्ने᳚ चिकि॒द्ध्य१॒᳚स्य न᳚ इ॒दं वचः᳚ सहस्य ।
तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र᳚यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र᳚यः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः᳚ । स॒ह॒स्य॒ ।
तम् । त्वा॒ । सु॒॑शि॒प्र॒ । द॒म्॑प॒ते॒ । स्तोमैः᳚ । व॒र्ध॒न्ति॒ । अत्र᳚यः । गीः॒॑भिः । शु॒म्भ॒न्ति॒ । अत्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सहस्य सहसोबलस्यपुत्र नोस्मदीयं अस्येदंपरिचरणं इदंवचः स्तोत्रंच चिकिद्धि जानीहि हेसुशिप्र शोभने शिप्रेहनूनासिकेवायस्यासौसुशिप्रः त्स्यसंबोधनंसुशिप्र सुहनो दंपते गृहपते तं त्वां अत्रयोत्रिपुत्राः स्तोमैःस्तोत्रैः वर्धन्ति वर्धयन्ति अत्रयोगी र्भिःशुंभंत्यलंकुर्वन्ति ॥ ४ ॥

अग्नेसहन्तमितिचतुरृचंनवमंसूक्तं अत्रानुक्रमणिका-अग्नेद्युम्नोविश्वचर्षणिरिति । द्युम्नऋषिः चतुर्थीपंक्तिराद्यास्तिस्रोनुष्टुभः अग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तान्तः पातितत्वादुक्तोविनियोगः ।