पञ्चमं मण्डलम् - सूक्तम् 3

12 ऋचः

ऋषिः: वसुश्रुत आत्रेयः देवता: अग्निः छन्दः: विराट्

सूक्तम् 5.3 - सम्पूर्णम्

1 / 12
ऋक्: 5.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
5.3.1
त्वम᳚ग्ने॒ वरु᳚णो॒ जाय᳚से॒ यत्त्वं मि॒त्रो भ᳚वसि॒ यत्समि᳚द्धः ।
त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वरु᳚णः । जाय᳚से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्॑इ᳚द्धः ।
त्वे इति᳚ । विश्वे᳚ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः᳚ । दा॒शुषे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमग्ने वरुण इति द्वादशर्चं तृतीयं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । त्वमग्ने वसुश्रुत इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगोऽबोध्यग्निरित्युक्तः ॥

हे अग्ने त्वं वरुणस्तमसां वारको रात्र्यभिमानी देवॊऽपि त्वमेव यद्यदा जायसे । किञ्च त्वं मित्रोऽहरभिमानी देवः प्रमीतेस्त्राता यद्यदा समिद्धः । त्वमुत्पन्नमात्रः सन् तमो निवारयसि प्रवृद्धः सन् हितकारी भवसीत्यर्थः । त्वे त्वयि विश्वे सर्वेऽपि देवा वर्तन्ते । त्वद्धत्तेन हविषा तेषां जीवनात् । ते देवा बिभ्यतोऽग्निं प्राविशन्निति हि श्रुतेः । हे सहसस्पुत्र बलेन मथ्यमानत्वात् । किञ्च त्वमिन्द्रः स्वामी दाशुषे हविर्दात्रे मर्त्याय यजमानाय ॥ १ ॥

5.3.2 समानपद
त्वम᳚र्य॒मा भ᳚वसि॒ यत्क॒नीनां॒ नाम᳚ स्वधाव॒न्गुह्यं᳚ बिभर्षि ।
अ॒ञ्जन्ति᳚ मि॒त्रं सुधि᳚तं॒ न गोभि॒र्यद्दम्प᳚ती॒ सम᳚नसा कृ॒णोषि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना᳚म् । नाम᳚ । स्वधा॑व᳚न् । गुह्य᳚म् । बि॒भ॒र्षि॒ ।
अ॒ञ्जन्ति᳚ । मि॒त्रम् । सु॑धि᳚तम् । न । गोभिः᳚ । यत् । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । स॑म᳚नसा । कृ॒णोषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विवाहे चतुर्थ्यामाज्याहुतौ त्वमर्यमेत्येषा । सूत्रितं च । त्वमर्यमा भवसि यत्कनीनामिति विवाहे चतुर्थीम् । आ. गृ. १-४ । इति ॥

हे अग्ने त्वमर्यमा भवसि । सर्वेषां नियमितासि । यद्यदा कनीनां कन्यकानां सम्बन्ध्यसि । किञ्च हे स्वधावन् हविर्लक्षणान्नवन् गुह्यं गोपनीयं नाम बिभर्षि वैश्वानर इति तन्नाम । सुधितं सुष्ठु सहितं मित्रं न मित्रमिव गोभिः । विकारे प्रकृतिशब्दः । गोविकारैः क्षीरादिभिरञ्जन्ति । यद्यस्माद्दम्पती ज्यायापती । समनसा समानमनस्कौ कृणोषि । करोषि ॥ २ ॥

5.3.3 समानपद
तव᳚ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि᳚म॒ चारु᳚ चि॒त्रम् ।
प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन᳚ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । श्रि॒ये । म॒रुतः᳚ । म॒र्ज॒य॒न्त॒ । रुद्र᳚ । यत् । ते॒ । जनि᳚म । चारु᳚ । चि॒त्रम् ।
प॒दम् । यत् । विष्णोः᳚ । उ॒प॒॑मम् । नि॒॑धायि᳚ । तेन᳚ । पा॒सि॒ । गुह्य᳚म् । नाम᳚ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयाग्नेर्मध्यमिकी मूर्तिरुच्यते । हे अग्ने तव श्रिये श्रयणाय मरुतोऽपोऽन्तरिक्ष्या मर्जयन्त । मार्जयन्ति । हे रुद्र वृष्ट्या रुद्रवद्वर्धितरग्ने ते तव यज्जनिम । जन्म वैद्युतलक्शणं चारु चरणीयं चित्रं चायनीयं च तत्कथमिति चेदुच्यते । विष्णॊर्व्यापनशीलस्य देवस्योपमं गुह्यमगम्यं यत्पदं निधायि । अनेनान्तरिक्षमुक्तम् । उपमेयमिव विष्णॊर्मध्यमम् पदं तस्मान्नान्तरिक्शं पश्यन्तिति ब्राह्मणम् । तेन गोनामुदकानां गुह्यं नाम नामानि पासि । रक्षसि ॥ ३ ॥

5.3.4
तव᳚ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना अ॒मृतं᳚ सपन्त ।
होता᳚रम॒ग्निं मनु᳚षो॒ नि षे᳚दुर्दश॒स्यन्त᳚ उ॒शिज॒ः शंस᳚मा॒योः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । श्रि॒या । सु॒॑दृशः᳚ । दे॒व॒ । दे॒वाः । पु॒रु । दधा᳚नाः । अ॒मृत᳚म् । स॒प॒न्त॒ ।
होता᳚रम् । अ॒ग्निम् । मनु᳚षः । नि । से॒दुः॒ । द॒श॒स्यन्तः᳚ । उ॒शिजः᳚ । शंस᳚म् । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाग्ने सुदृशस्तव श्रिया समृद्ध्या देवा इन्द्रादयः पुर्वत्यधिकं दधानास्त्वयि प्रीतिं धारयन्तोऽमृतं सपन्त । स्पृशन्ति । होतारं होमनिश्पादकमग्निं मनुषो मनुष्या निशेदुः । परिचरन्त्युत्विजः । किं कुर्वन्तः । दशस्यन्तो हविर्वितरन्तः शंसं फलमुशिजः कामयमानस्यायोर्मनुष्यस्य यजमानस्यार्थं ॥ ४ ॥

5.3.5
न त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚या॒न्न काव्यै᳚ः प॒रो अ᳚स्ति स्वधावः ।
वि॒शश्च॒ यस्या॒ अति᳚थि॒र्भवा᳚सि॒ स य॒ज्ञेन᳚ वनवद्देव॒ मर्ता᳚न् ॥
▶ पदपाठः (Word-by-word)
न । त्वत् । होता᳚ । पूर्वः᳚ । अ॒ग्ने॒ । यजी᳚यान् । न । काव्यैः᳚ । प॒रः । अ॒स्ति॒ । स्व॒धा॒॑वः ।
वि॒शः । च॒ । यस्याः᳚ । अति᳚थिः । भवा᳚सि । सः । य॒ज्ञेन᳚ । व॒न॒व॒त् । दे॒व॒ । मर्ता᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वत्त्वत्तोऽन्यो नास्ति होता पूर्वः पूरकः पुराणो वायजीयान्यष्टा वा । काव्यैः स्तोत्रैः स्तुत्यः परः परस्तात्परस्मिन्नपि काले नास्ति । हे देव हे स्वधावोऽन्नवन् यस्या विशः प्रजाया ऋत्विग्रूपाय अतिथिर्भवासि । अतिथिवत्पूज्यो भवसि । स यज्ञेन मर्तानस्मद्द्वेश्टॄन् वनवत् । व्रुश्चति । हिनस्ति । यद्वा । मर्तान्परिचारकान्वनवत् । सम्भजेत् ॥ ५ ॥

5.3.6
व॒यम᳚ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य᳚मानाः ।
व॒यं स᳚म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स᳚हसस्पुत्र॒ मर्ता᳚न् ॥
▶ पदपाठः (Word-by-word)
व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वा॑ऊ᳚ताः । व॒सु॒॑यवः᳚ । ह॒विषा᳚ । बुध्य᳚मानाः ।
व॒यम् । स॒॑म॒र्ये । वि॒दथे᳚षु । अह्ना᳚म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वयं यजमानास्त्वोतास्त्वया रक्षिताः सन्तो वनुयाम । शत्रून्पीडयाम सम्भजेमहि वा धनम् । कीदृशा वयम् । वसूयवो वसुकामा हविशा त्वां बुध्यमाना बोधयन्तो वयं समर्ये समरणे जयेम शत्रूनिति शेषः । विदथेषु यागेषु प्राप्नुयाम बलम् । यद्वा । वनुयामेत्येतदनुषज्यते । अह्नां सर्वेष्वहःसु । किञ्च वयं हे सहसस्पुत्र बलस्य पुत्र पालक वाग्ने राया धनेन सह मर्त्यान्पुत्रभृत्यादीन् लभेमहि ॥ ६ ॥

5.3.7
यो न॒ आगो᳚ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात ।
ज॒ही चि᳚कित्वो अ॒भिश᳚स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय᳚ति द्व॒येन᳚ ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । आगः᳚ । अ॒भि । एनः᳚ । भरा᳚ति । अधि᳚ । इत् । अ॒घम् । अ॒घ॑शं᳚से । द॒धा॒त॒ ।
ज॒हि । चि॒कि॒त्वः॒ । अ॒भि॑श᳚स्तिम् । ए॒ताम् । अ॒ग्ने॒ । यः । नः॒ । म॒र्चय᳚ति । द्व॒येन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो मर्त्य आगोऽपराधमेनः पापं च नोऽस्मभ्यमभि भराति । अभितः करोति । तस्मिन्नघशंसेऽघं पापमधि दधात । ददात्वग्निः । इदिति पूरणः । आगोऽवराधं यो मह्यमिदं करोति तस्मा एवाग्निस्तत्करोत्वित्यर्थः । अथ प्रत्यक्षेणोच्यते । हे अग्ने एतामभिशस्तिं जहि । उत्तरत्र यच्छब्दश्रवणात्तदानुगुण्येनैनमभिशंसकमिति ब्याख्येयम् । योऽभिशस्ता नोऽस्मान्द्वयेनोक्तेनागसैनसा वा मर्चयति । बाधते । तमिति ॥ ७ ॥

5.3.8 समानपद
त्वाम॒स्या व्युषि᳚ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना अ᳚यजन्त ह॒व्यैः ।
सं॒स्थे यद᳚ग्न॒ ईय᳚से रयी॒णां दे॒वो मर्तै॒र्वसु᳚भिरि॒ध्यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒स्याः । वि॒॑उषि᳚ । दे॒व॒ । पूर्वे᳚ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः ।
स॒म्॑स्थे । यत् । अ॒ग्ने॒ । ईय᳚से । र॒यी॒णाम् । दे॒वः । मर्तैः᳚ । वसु᳚॑भिः । इ॒ध्यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वामस्या रात्रेर्व्युषि । व्युष्टायामुषसीत्यर्थः । पूर्वे पुरातना यजमाना दूतं देवानां प्रेरकं कृण्वानाः कुर्वाणा अयजन्त हव्यैर्हविर्भिः साधनै रयीणां हविर्लकाहणानां संस्थे संस्थान आसादने सति हे अग्ने यद्यदेयसे । गच्छसि । देवो द्योतमानो मर्तैर्मनुष्यैरृत्विग्भिर्वसुभिर्वासकैरिध्यमानः समिध्यमानः सन् ॥ ८ ॥

5.3.9
अव᳚ स्पृधि पि॒तरं॒ योधि᳚ वि॒द्वान्पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे ।
क॒दा चि᳚कित्वो अ॒भि च᳚क्षसे॒ नो॑ग्ने᳚ क॒दा{4} ऋ᳚त॒चिद्या᳚तयासे ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्पृ॒धि॒ । पि॒तर᳚म् । योधि᳚ । वि॒द्वान् । पु॒त्रः । यः । ते॒ । स॒ह॒सः॒ । सू॒नो॒ इति᳚ । ऊ॒हे ।
क॒दा । चि॒कि॒त्वः॒ । अ॒भि । च॒क्ष॒से॒ । नः॒ । अ॒ग्ने॒ । क॒दा । ऋ॒त॒॑चित् । या॒त॒या॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्य पुत्राग्ने त्वमव स्पृथि । पारय । योधि । पृथत्कुरुपापात् । यः पुत्रः पुत्रस्थानीयस्तव यो यजमानस्ते त्वां पितरं बालकं पृतृभूतं विद्वान् जानन् ऊहे । वहति हविः । तमेवं कुर्वित्यृषिरात्मानं परोक्षेणाह । हव्यवाळग्निरजरः पिता नः । ऋग्वे. ५-४-२ । इति हि वक्ष्यति । यद्वा । पितृपुत्रभावो व्यत्यस्तः । पितरं पितृवद्रक्षकं यजमानमव स्पृथि योधि च यस्त्वं पुत्रः पुत्रवत्सदा रक्षणीयः । त्वं पुत्रो भवसि यस्तेऽविधत् । ऋग्वे. २-१-९ । तदा च ऋतचिद्यज्ञस्योदकस्य वा चेतयिता यातयासे । प्रेरयसि सन्मार्गेण ॥ ९ ॥

5.3.10
भूरि॒ नाम॒ वन्द᳚मानो दधाति पि॒ता व᳚सो॒ यदि॒ तज्जो॒षया᳚से ।
कु॒विद्दे॒वस्य॒ सह᳚सा चका॒नः सु॒म्नम॒ग्निर्व᳚नते वावृधा॒नः ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । नाम᳚ । वन्द᳚मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति᳚ । यदि᳚ । तत् । जो॒षया᳚से ।
कु॒वित् । दे॒वस्य᳚ । सह᳚सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूरिप्रभूतं नाम त्वदीयं नाम वन्दमानः सन् दधाति । धारयति । सामर्थ्याद्धविः । अथवा नामकं हविः प्रभूतं धारयति दातुम् । पिता पालकस्त्वं हे वसो वासकाग्ने यदि तद्धविर्जोषयासे । सेवसे । देवस्य व्यवहर्तुर्यजमानस्य कुविद्बहु हविः सहसा बलेन युक्तः सन् चकानः कामयमानः । यद्वा कर्मणि षष्ठी । देवं यजमानं कामयानोऽग्निर्वृधानो वर्धमानो यजमानं वर्धयन्वा सुम्नं वनते । प्रयच्छाति ॥ १० ॥

5.3.11
त्वम॒ङ्ग ज᳚रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति᳚ पर्षि ।
स्ते॒ना अ᳚दृश्रन्रि॒पवो॒ जना॒सो॑ज्ञा᳚तकेता वृजि॒ना अ᳚भूवन् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ङ्ग । ज॒रि॒तार᳚म् । य॒वि॒ष्ठ॒ । विश्वा᳚नि । अ॒ग्ने॒ । दुः॒॑इ॒ता । अति᳚ । प॒र्षि॒ ।
स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः᳚ । जना᳚सः । अज्ञा᳚त॑केताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अङ्ग स्वामिन्यविष्ठ युवतमाग्ने जरितारं स्तोतारमनुग्रहीतुं विश्वानि दुरिता दुरितान्यति पर्षि । अतिपारयसि । स्तेनास्तस्करा अदृश्रन् । दृश्यन्ते । रिपवो जनासः शत्रुभूता मनुष्या अज्ञातकेन्ता अप्रज्ञातचिह्ना व्रुजिना अस्माभिर्वर्जिता अभूवन् । भवन्ति ॥ ११ ॥

5.3.12
इ॒मे यामा᳚सस्त्व॒द्रिग᳚भूव॒न्वस᳚वे वा॒ तदिदागो᳚ अवाचि ।
नाहा॒यम॒ग्निर॒भिश᳚स्तये नो॒ न रीष᳚ते वावृधा॒नः परा᳚ दात् ॥
▶ पदपाठः (Word-by-word)
इ॒मे । यामा᳚सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस᳚वे । वा॒ । तत् । इत् । आगः᳚ । अ॒वा॒चि॒ ।
न । अह᳚ । अ॒यम् । अ॒ग्निः । अ॒भि॑श᳚स्तये । नः॒ । न । रिष᳚ते । व॒वृ॒धा॒नः । परा᳚ । दा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इम यमासो गन्तारः स्तोमास्त्वद्रिक् त्वदभिमुखा अभूवन् । भवन्ति । वा अथवा वसवे वासकाय तदागोऽपराधमाशासनरूपमवाचि । उक्तवानहमग्निम् । इदं देहीति याचनमेवापराधः । इदिति पूरणः । यद्वा । तदिदं वक्ष्यमाणं शत्रुभिः कृतमागोऽवाचि । किञ्चायमग्निर्वृधानः स्तुत्या वर्धमानः सन् नाह नैवाभिशस्तये निन्दकाय नोऽस्मान् परा दात् । परादद्यात् । तथा रिषते हिंसकाय नैव परा दात् ॥ १२ ॥