पञ्चमं मण्डलम् - सूक्तम् 13

6 ऋचः

ऋषिः: सुतंभर आत्रेयः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 5.13 - सम्पूर्णम्

1 / 6
ऋक्: 5.13.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.13.1
अर्च᳚न्तस्त्वा हवाम॒हे॑र्च᳚न्त॒ः समि᳚धीमहि ।
अग्ने॒ अर्च᳚न्त ऊ॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अर्च᳚न्तः । त्वा॒ । ह॒वा॒म॒हे॒ । अर्च᳚न्तः । सम् । इ॒धी॒म॒हि॒ ।
अग्ने᳚ । अर्च᳚न्तः । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वा त्वां अर्चन्तः पूजयन्तोवयं ह्वामहे आह्वयामः अर्चन्तस्तुवन्तोवयं ऊतये रक्षणाय तर्पणायवा त्वांसमिधीमहि समिद्भिःसंदीपयामः अर्चन्तइतितृतीयंपदमादरातिशयार्थम् ॥ १ ॥

5.13.2
अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि᳚वि॒स्पृशः᳚ ।
दे॒वस्य᳚ द्रविण॒स्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । स्तोम᳚म् । म॒ना॒म॒हे॒ । सि॒ध्रम् । अ॒द्य । दि॒वि॒॑स्पृशः᳚ ।
दे॒वस्य᳚ । द्र॒वि॒ण॒स्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रविणस्यवः द्रविणंधनमिच्छन्तोवयं दिविस्पृशः सूर्यआकाशंव्याप्नुवतोदेवस्यद्योतमानस्याग्नेः सिध्रं पुरुषार्थनांसाधकं स्तोमं स्तोत्रं अधास्मिन्नहनि मनामहे ब्रूमः ॥ २ ॥

5.13.3
अ॒ग्निर्जु᳚षत नो॒ गिरो॒ होता॒ यो मानु᳚षे॒ष्वा ।
स य᳚क्ष॒द्दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः᳚ । होता᳚ । यः । मानु᳚षेषु । आ ।
सः । य॒क्ष॒त् । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होत देवानामाह्वाता योग्निर्मानुषेषु आवसति सोग्निर्नोस्माकंगिरःस्तुतीः जुषत सेवतां सोग्निर्दैव्यंजनंदेवसंबन्धिनंजनं यक्षत् यजतु ॥ ३ ॥

5.13.4
त्वम᳚ग्ने स॒प्रथा᳚ असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः ।
त्वया᳚ य॒ज्ञं वि त᳚न्वते ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । स॒॑प्रथाः᳚ । अ॒सि॒ । जुष्टः᳚ । होता᳚ । वरे᳚ण्यः ।
त्वया᳚ । य॒ज्ञम् । वि । त॒न्व॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने जुष्टः सर्वदाप्रीतः वरेण्यः सर्वैर्वरणीयः होता त्वं सप्रथाः सर्वतः पृथुरसि भवसि तथाहयास्कः-सप्रथाःसर्वतः पृथुरिति । किंचसर्वेयजमानाः त्वयासाधनेन यज्ञं वितन्वते ॥ ४ ॥

5.13.5
त्वाम᳚ग्ने वाज॒सात᳚मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु᳚तम् ।
स नो᳚ रास्व सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । वा॒ज॒॑सात᳚मम् । विप्राः᳚ । व॒र्ध॒न्ति॒ । सु॑स्तु᳚तम् ।
सः । नः॒ । रा॒स्व॒ । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने विप्रामेधाविनः स्तोतारोवाजसातमं वाजोन्नंतद्ददतं सुष्टुतं पूर्वैर्महर्षिभिःसम्यक्स्तुतं त्वां वर्धन्ति स्तोत्रैर्वर्धयन्ति सत्वंनोस्मभ्यं सुवीर्यं सुवीर्यं सर्वैःश्लाघनीयंबलं रास्वदेहि ॥ ५ ॥

5.13.6
अग्ने᳚ ने॒मिर॒रा{4} इ᳚व दे॒वा{4}स्त्वं प᳚रि॒भूर᳚सि ।
आ राध᳚श्चि॒त्रमृ᳚ञ्जसे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । ने॒मिः । अ॒रान्॑इ᳚व । दे॒वान् । त्वम् । प॒रि॒॑भूः । अ॒सि॒ ।
आ । राधः᳚ । चि॒त्रम् । ऋ॒ञ्ज॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वं देवान् परिभूरसि स्वतेजसापरिभवसि कथमिव नेमिः प्रकाशमानः चक्रस्य बाह्योवलयः अरानिव नाभावर्पितान् सूक्ष्मान् स्थासकानिव किंच चित्रं नानाविधं राधः राध्नुवन्तिसाधयंत्यनेनपुरुषार्थानितिराधोधनं आऋंजसे स्तोतृभ्यःप्रसाधय धननामसुपाठात् राधोधनमित्युक्तम् ॥ ६ ॥

अग्निंस्तोमेनेतिषळृचंचतुर्दशंसूक्तं सुतंभरस्यार्षंगायत्रमाग्नेयं अग्निंस्तोमेनेत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेनसहोक्तोविनियोगः ।