दश᳚ श॒ता स॒ह त᳚स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु᳚षामपश्यम् ॥
पदपाठः (Word-by-word)
दश᳚ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक᳚म् । दे॒वाना᳚म् । श्रेष्ठ᳚म् । वपु᳚षाम् । अ॒प॒श्य॒म् ॥
सायणभाष्यम् (Sayana Commentary)
सूर्यस्य ऋतंसत्यभूतं मंडलं ऋतेनोदकेनापिहितमाच्छादितं ध्रुवं शाश्वतं अपश्यमिति संबन्धः यत्र वां युवाभ्यांस्थितं तदित्यर्थः सूर्यमंडलेमित्रावरुणयोःस्थितिः चित्रंवानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्नेः उद्वांचक्षुर्वरुणसुप्रतीकंदेवयोरेतिचक्षुर्मित्रस्यवरुणस्येत्या- दिषुप्रसिद्धा यत्र यस्मिन्मंडले स्थितानश्वान् विमुचन्ति विमोचयन्तिस्तोतारः मंदेहादिभिः निरुद्धानित्यर्थः अथवा शीघ्रधावनाय स्तु- त्याप्रेरयन्ति तस्मिंश्चमंडले दश शता शतानि सहस्रसंख्याकारश्मयः तस्थुस्तिष्ठन्ति तादृशं देवानांवपुषां वपुष्मतां तेजोवतामग्न्यादीनां श्रेष्ठं प्रशस्यं मत्वर्थलक्षणा अथवा व्यधिकरणषष्ठी देवानांवपुषांशरीराणां श्रेष्ठंमंडलंहिसूर्यस्य वपुस्थानीयं तन्मंडलमपश्यं अथवा वां यु- वयोर्मध्ये सूर्यस्यमंडलं अपश्यमितिव्याख्येयं मैत्रंवाअहरितिश्रुतेर्मित्रस्यैवसूर्यत्वादित्याशयेन ॥ १ ॥