पञ्चमं मण्डलम् - सूक्तम् 63

7 ऋचः

ऋषिः: अर्चनाना आत्रेयः देवता: मित्रावरुणौ छन्दः: जगती

सूक्तम् 5.63 - सम्पूर्णम्

1 / 7
ऋक्: 5.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
5.63.1
ऋत᳚स्य गोपा॒वधि᳚ तिष्ठथो॒ रथं॒ सत्य᳚धर्माणा पर॒मे व्यो᳚मनि ।
यमत्र᳚ मित्रावरु॒णाव᳚थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु᳚मत्पिन्वते दि॒वः ॥
▶ पदपाठः (Word-by-word)
ऋत᳚स्य । गो॒पौ॒ । अधि᳚ । ति॒ष्ठ॒थः॒ । रथ᳚म् । सत्य᳚॑धर्माणा । प॒र॒मे । वि॑ओ᳚मनि ।
यम् । अत्र᳚ । मि॒त्रा॒व॒रु॒णा॒ । अव᳚थः । यु॒वम् । तस्मै᳚ । वृ॒ष्टिः । मधु᳚॑मत् । पि॒न्व॒ते॒ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)
'

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरं ॥ १ ॥

अष्टकस्यचतुर्थस्यतृतीयोव्याकृतः स्फुटं ॥ अध्यायः सायणार्येणार्येणचतुर्थोव्याकरिष्यते ॥ २ ॥

ऋतस्यगोपावितिसप्तर्चंसप्तमंसूक्तं अत्रेयमनुक्रमणिका-ऋतस्यसप्तार्चनानाजागतमिति । आत्रेयोर्चनानानामऋषिः जगतीछन्दः तुह्यादिपरिभाषयामित्रादरुणौदेवता विनियोगोलैंगिकः ।

हेऋतस्योदकस्यगोपौरक्षितारौ सत्यधर्माणा सत्यधर्मणौ युवां रथमधितिष्ठथः आरोहथः अस्मद्यज्ञमागमनार्थं कुत्र परमेव्योमनि निरतिशयेआकाशे हेमित्रावरुणौ युवं युवां अत्रास्मिन्यज्ञे यं यजमानं अवथोरक्षथः तस्मैयजमानाय वृष्टिः पर्जन्योमधुमदुदकं दिवोद्यु- लोकात्पिन्वते सिंचतिवर्धयति ॥ १ ॥

5.63.2
स॒म्राजा᳚व॒स्य भुव᳚नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚ ।
वृ॒ष्टिं वां॒ राधो᳚ अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च᳚रन्ति त॒न्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राजौ᳚ । अ॒स्य । भुव᳚नस्य । रा॒ज॒थः॒ । मित्रा᳚वरुणा । वि॒दथे᳚ । स्वः॒॑दृशा᳚ ।
वृ॒ष्टिम् । वा॒म् । राधः᳚ । अ॒मृ॒त॒॑त्वम् । ई॒म॒हे॒ । द्यावा᳚पृथि॒वी इति᳚ । वि । च॒र॒न्ति॒ । त॒न्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ सम्राजौ सम्यक् राजमानौ युवामस्य भुवनस्य राजथः ईशाथे स्वर्दृशा स्वर्गस्य द्रष्टारौ युवां विदथेस्मद्यज्ञे सम्राजावि- तिसंबन्धः वां युवां वृष्टिं राधोधनं वृष्ट्याख्यंधनं अमृतत्वंस्वर्गंच ईमहे प्रार्थयामहे युवयोस्तन्यवोविस्तृताः रश्मयोद्यावापृथिवी विचरन्ति विविधंप्राप्नुवन्ति अथवा वृष्टिंधनममृतत्वंचईमहे ॥ २ ॥

5.63.3
स॒म्राजा᳚ उ॒ग्रा वृ᳚ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु᳚णा॒ विच᳚र्षणी ।
चि॒त्रेभि᳚र॒भ्रैरुप᳚ तिष्ठथो॒ रवं॒ द्यां व᳚र्षयथो॒ असु᳚रस्य मा॒यया᳚ ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राजौ᳚ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॒ इति᳚ । पृ॒थि॒व्याः । मि॒त्रावरु᳚णा । विच᳚र्षणी॒ इति॒ वि॑च᳚र्षणी ।
चि॒त्रेभिः᳚ । अ॒भ्रैः । उप᳚ । ति॒ष्ठ॒थः॒ । रव᳚म् । द्याम् । व॒र्ष॒य॒थः॒ । असु᳚रस्य । मा॒यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सम्राजौ सम्यक् राजमानौ उग्रा उद्गूर्णबलौ वृषभा वर्षितारौ दिवोद्युलोकस्यपती स्वामिनौ पृथिव्याश्चपती विश्वचर्षणी सर्वस्यद्र- ष्टारौ मित्रावरुणौ एवंमहानुभावौ चित्रेभिश्चायनीयैरभ्रैर्मेघैःसह रवं स्तोत्रं उपतिष्ठथः पश्चात् द्यांच वर्षयथः असुरस्योदकनिरसितुः पर्जन्यस्य मायया प्रज्ञया सामर्थ्येन ॥ ३ ॥

5.63.4
मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति᳚श्चरति चि॒त्रमायु᳚धम् ।
तम॒भ्रेण᳚ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु᳚मन्त ईरते ॥
▶ पदपाठः (Word-by-word)
मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः᳚ । ज्योतिः᳚ । च॒र॒ति॒ । चि॒त्रम् । आयु᳚धम् ।
तम् । अ॒भ्रेण᳚ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज᳚न्य । द्र॒प्साः । मधु᳚॑मन्तः । ई॒र॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा वां युवयोर्माया दिविश्रिता आश्रिता कैषा युवयोर्मायाउच्यते सूर्यः सर्वस्यप्रेरकोज्योतिर्दीप्यमानः चित्रं चायनीयमा- युधं उक्तलक्षणायुधरूपश्चरति परिभ्रमत्यं तरिक्षे शत्रुमारकत्वादायुधमुच्यते तंसूर्यं अभ्रेण मेघेन वृष्ट्या दिवि गूहथोगोपायथः हेपर्जन्य देव त्वया मित्रावरुणाभ्यां प्रेरितेन मधुमन्तोद्रप्साआपः ईरतेईर्यन्ते त्वत्सृष्टावागच्छन्ति ॥ ४ ॥

5.63.5
रथं᳚ युञ्जते म॒रुतः᳚ शु॒भे सु॒खं शूरो॒ न मि᳚त्रावरुणा॒ गवि᳚ष्टिषु ।
रजां᳚सि चि॒त्रा वि च᳚रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय᳚सा न उक्षतम् ॥
▶ पदपाठः (Word-by-word)
रथ᳚म् । यु॒ञ्ज॒ते॒ । म॒रुतः᳚ । शु॒भे । सु॒खम् । शूरः᳚ । न । मि॒त्रा॒व॒रु॒णा॒ । गो॑इ᳚ष्टिषु ।
रजां᳚सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः᳚ । दि॒वः । स॒म्॑रा॒जा॒ । पय᳚सा । नः॒ । उ॒क्ष॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवयोरनुग्रहात् मरुतः शुभे उदकार्थं सुखं शोभनाक्षद्वारं रथंयुंजते अश्वैर्योजयन्ति शूरौन शूरइव सयथायुद्धार्थंरथंयुन- क्तितद्वत् गविष्टिषु गवामुदकानामेषणेषुनिमित्तेषु चित्रा चायनीयानि रजांसि लोकान् तन्यवः ततास्तेम्रुतोविचरन्ति विविधंचरन्ति तस्मात्तैः सहितौ हेसम्राजा युवां दिवोद्युलोकात् पयसोदकेन नोस्मानुक्षतं सिंचतं ॥ ५ ॥

5.63.6
वाचं॒ सु मि᳚त्रावरुणा॒विरा᳚वतीं प॒र्जन्य᳚श्चि॒त्रां व᳚दति॒ त्विषी᳚मतीम् ।
अ॒भ्रा व᳚सत म॒रुत॒ः सु मा॒यया॒ द्यां व᳚र्षयतमरु॒णाम᳚रे॒पस᳚म् ॥
▶ पदपाठः (Word-by-word)
वाच᳚म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा᳚॑वतीम् । प॒र्जन्यः᳚ । चि॒त्राम् । व॒द॒ति॒ । त्विषि᳚॑मतीम् ।
अ॒भ्रा । व॒स॒त॒ । म॒रुतः᳚ । सु । मा॒यया᳚ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ युवयोरनुग्रहात् पर्जन्योमेघः सु सुष्ठु इरावतीं अन्नवतीमन्नसाधिकां चित्रां चायनीयां त्विषीमतीं दीप्तिमतीं वाचं गर्ज- नशब्दं वदति शब्दयति वृष्ट्यर्थं मरुतश्चाभ्रा अभ्राणि मेघान् सु सुष्ठु वसत आच्छादयन्ति मायया स्वप्रज्ञया युवांच पर्जन्येनमरुद्भिश्च् सहारुणामरुणवर्णां अरेपसं अपापां वृष्ट्याविघातिनीं द्यां वर्षयतम् ॥ ६ ॥

5.63.7
धर्म᳚णा मित्रावरुणा विपश्चिता व्र॒ता र᳚क्षेथे॒ असु᳚रस्य मा॒यया᳚ ।
ऋ॒तेन॒ विश्वं॒ भुव᳚नं॒ वि रा᳚जथ॒ः सूर्य॒मा ध᳚त्थो दि॒वि चित्र्यं॒ रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
धर्म᳚णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒॑चि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति᳚ । असु᳚रस्य । मा॒यया᳚ ।
ऋ॒तेन᳚ । विश्व᳚म् । भुव᳚नम् । वि । रा॒ज॒थः॒ । सूर्य᳚म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य᳚म् । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणा युवां धर्मणा जगद्धारकेण विपश्चिता स्तुत्येनेत्यर्थः व्रता व्रतेन कर्मणा अथवा विपश्चितास्तोतृनामैतत् यजमानेन वृष्ट्या जगद्रक्षणस्य यजमानोपिकारणं तत्कृतयाहुत्या नृष्ट्युत्पत्तेः व्रता व्रतेन युवयोःकर्मणा यज्ञादिकर्माणि रक्षेथे पालयथः असुरस्य मेघानांनिरसितुःपर्जन्यस्य मायया प्रज्ञयाच ऋतेनोदकेन यज्ञेनवा निमित्तेन विश्वं भुवनं सर्वंभूतजातं विराजथः विदीपयथइत्यर्थः सूर्य- मासूर्यंच चित्र्यं पूज्यं रथं रंहणस्वभावं दिवि द्युलोके धत्थः धारयथोजगदुपकारार्थम् ॥ ७ ॥

वरुणंवइतिसप्तर्चमष्टमंसूक्तं अर्चनानसआर्षं मैत्रावरुणं पंक्त्यन्तपरिभाषया आनुष्टुभं अन्त्यापंक्तिः वरुणंपंक्त्यन्तंत्वित्यनुक्रमणि- का विनियोगोलैंगिकः ॥