पञ्चमं मण्डलम् - सूक्तम् 40

9 ऋचः

ऋषिः: भौमोत्रिः देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 5.40 - सम्पूर्णम्

1 / 9
ऋक्: 5.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
5.40.1
आ या॒ह्यद्रि᳚भिः सु॒तं सोमं᳚ सोमपते पिब ।
वृष᳚न्निन्द्र॒ वृष᳚भिर्वृत्रहन्तम ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अद्रि᳚॑भिः । सु॒तम् । सोम᳚म् । सो॒म॒॑प॒ते॒ । पि॒ब॒ ।
वृष᳚न् । इ॒न्द्र॒ । वृष᳚॑भिः । वृ॒त्र॒ह॒न्॑त॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र आयाहि अस्मद्यज्ञमागच्छ आगत्यच हेसोमपते सोमस्यस्वामिन्निन्द्र अद्रिभिर्ग्रावभिः सुतमभिषुतंसोमंपिब हेवृषन् फलस्यवर्षयितः वृत्रहन्तम अतिशयेनशत्रूणांहन्तृतम वृषभिर्वर्षकैर्मरुद्भिः सहायाहि पिबच ॥ १ ॥

5.40.2
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः ।
वृष᳚न्निन्द्र॒ वृष᳚भिर्वृत्रहन्तम ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । ग्रावा᳚ । वृषा᳚ । मदः᳚ । वृषा᳚ । सोमः᳚ । अ॒यम् । सु॒तः ।
वृष᳚न् । इ॒न्द्र॒ । वृष᳚॑भिः । वृ॒त्र॒ह॒न्॑त॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावा अभिषवसाधनः पाषाणोवृषा वर्षकः सोमरसस्य फलस्यवामदः सोमपानेनजनितः वृषा वर्षकः अयंसुतोभिषुतः सोमोवृषा संस्तोमं- ॥ २ ॥

5.40.3
वृषा᳚ त्वा॒ वृष᳚णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि᳚रू॒तिभि᳚ः ।
वृष᳚न्निन्द्र॒ वृष᳚भिर्वृत्रहन्तम ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । त्वा॒ । वृष᳚णम् । हु॒वे॒ । वज्रि᳚न् । चि॒त्राभिः᳚ । ऊ॒ति॑भिः᳚ ।
वृष᳚न् । इ॒न्द्र॒ । वृष᳚॑भिः । वृ॒त्र॒ह॒न्॑त॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवज्रिन् वज्रवन्निंद्र वृषासोमरसस्यसेक्ताहं वृषणं त्वां हुवे आह्वयामि किमर्थं चित्राभिश्चायनीयाभिः ऊतिभीरक्शाभिः निमित्तभूताभिः शिष्टंगतम् ॥ ३ ॥ ऋजीषीवज्रीत्येषाब्राह्मणाच्छंसिनः शस्त्रयाज्या ऋजीषीवज्रीवृषभस्तुराषाडितियाज्येतिहिसूत्रितम् ।

5.40.4
ऋ॒जी॒षी व॒ज्री वृ᳚ष॒भस्तु᳚रा॒षाट् छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚ ।
यु॒क्त्वा हरि᳚भ्या॒मुप᳚ यासद॒र्वाङ्माध्यं᳚दिने॒ सव᳚ने मत्स॒दिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा᳚ । वृ॒त्र॒॑हा । सो॒म॒॑पावा᳚ ।
यु॒क्त्वा । हरि᳚॑भ्याम् । उप᳚ । या॒स॒त् । अ॒र्वाङ् । माध्य᳚न्दिने । सव᳚ने । म॒त्स॒त् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजीषी सवनद्वयेभिश्खुतस्यगतसारस्यसोमरसस्यतृतीयसवने आप्यायाभिषुतोयोस्तिसऋजीषः सोमः सोस्यास्तीतिऋजीषी वज्री वज्रवान् वृषभोवर्षिता तुराषाट् तुराणांत्वरमाणानांशत्रूणांसोढा शुष्मी बलवान् राजा ईश्वरः सर्वस्य वृत्रहा वृत्रस्यहन्ता सोमपावा सोमरसस्य पाता एवंमहानुभावइन्द्रोहरिभ्यांयुक्त्वारथंयोजयित्वोपयासत् उपगच्छतु अर्वागस्मदभिमुखंआगच्छतु माध्यंदिनेसवनेमत्सत् माद्यतुसोमेनेन्द्रः ॥ ४ ॥

5.40.5
यत्त्वा᳚ सूर्य॒ स्व᳚र्भानु॒स्तम॒सावि᳚ध्यदासु॒रः ।
अक्षे᳚त्रवि॒द्यथा᳚ मु॒ग्धो भुव᳚नान्यदीधयुः ॥
▶ पदपाठः (Word-by-word)
यत् । त्वा॒ । सू॒र्य॒ । स्वः᳚॑भानुः । तम᳚सा । अवि᳚ध्यत् । आ॒सु॒रः ।
अक्षे᳚त्र॑वित् । यथा᳚ । मु॒ग्धः । भुव᳚नानि । अ॒दी॒ध॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिचतुर्भिर्मंत्रैरत्रीणांकर्मकीर्त्यते हेसूर्य प्रेरक देव त्वा त्वां यद्यदा आसुरः असुरस्यप्राणापहर्तुरसुर्यावापुत्रः स्वर्भानुः स्वर्भानुसंज्ञकस्तमसामायानिर्मितेनाविध्यत् आवृणोदित्यर्थः तदा भुवनानिसर्वाणि अदीधयुः दृश्यन्ते तथा तत्रत्यःसर्वोजनः अक्षेत्रवित् स्वस्वस्थानमजानन् मुग्धोमूढोभवति तथा ॥ ५ ॥

5.40.6
स्व᳚र्भानो॒रध॒ यदि᳚न्द्र मा॒या अ॒वो दि॒वो वर्त᳚माना अ॒वाह᳚न् ।
गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म᳚णाविन्द॒दत्रि᳚ः ॥
▶ पदपाठः (Word-by-word)
स्वः᳚॑भानोः । अध᳚ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त᳚मानाः । अ॒व॒॑अह᳚न् ।
गू॒ळ्हम् । सूर्य᳚म् । तम᳚सा । अप᳚॑व्रतेन । तु॒रीये᳚ण । ब्रह्म᳚णा । अ॒वि॒न्द॒त् । अत्रिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथ जगन्मौढ्यानन्तरं स्वर्भानोरसुरस्य यत् यामायाःसन्ति कीदृश्यस्ताः दिवोद्योतमानादादित्यात् अवः अवस्तात् वर्तमानाः तदुपरितिरोधानासामर्थ्यादितिभावः हेइन्द्र ताः सर्वाः अवाहन् अवहंसि अथात्रेरेवपरोक्षवादः तमसान्धकारेण अपव्रतेन अपगतकर्मणा गूह्ळं सूर्यं अन्धकारस्यावरणरूपत्वादपव्रतत्वं तथाविधं तुरीयेणब्रह्मणामंत्रेण ग्राव्णोब्रह्मेत्यनेनात्रिरविन्दत् लब्धवान् आवरणापगमोपायंनिवारणंशुद्धंवासूर्यमितिपूर्वमन्त्रापेक्षयास्यतुरीयत्वं एकैकंमायांशमेकैकेनमंत्रेणापनोद्य चतुर्थेनमंत्रेण निलीनंत- मप्यनुददित्यर्थः ॥ ६ ॥

5.40.7 समानपद
मा मामि॒मं तव॒ सन्त᳚मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत् ।
त्वं मि॒त्रो अ᳚सि स॒त्यरा᳚धा॒स्तौ मे॒हाव᳚तं॒ वरु᳚णश्च॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
मा । माम् । इ॒मम् । तव᳚ । सन्त᳚म् । अ॒त्रे॒ । इ॒र॒स्या । द्रु॒ग्धः । भि॒यसा᳚ । नि । गा॒री॒त् ।
त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्य॑रा᳚धाः । तौ । मा॒ । इ॒ह । अ॒व॒त॒म् । वरु᳚णः । च॒ । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदंसूर्यवाक्यं हेअत्रे मामिमं ईदृगवस्थं मां तवसन्तं तवस्वभूतमिरस्यान्नेच्छया द्रुग्धाद्रोग्धा असुरोभियसा भयजनकेनतमसा अन्धकारेण मानिगारीत् मागिरतु किंच हेमित्र त्वंमित्रोसि प्रमीतेःसकाशान्त्राताभवसि सत्यराधाः सत्यधनश्च तौ राजावरुणश्च त्वंच तौ युवां मामामिहावतं रक्षतं अत्रिरेवमित्रउच्यते वरुणश्चयुवाम् ॥ ७ ॥

5.40.8
ग्राव्णो᳚ ब्र॒ह्मा यु᳚युजा॒नः स᳚प॒र्यन्की॒रिणा᳚ दे॒वान्नम᳚सोप॒शिक्ष᳚न् ।
अत्रि॒ः सूर्य᳚स्य दि॒वि चक्षु॒राधा॒त्स्व᳚र्भानो॒रप᳚ मा॒या अ᳚घुक्षत् ॥
▶ पदपाठः (Word-by-word)
ग्राव्णः᳚ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा᳚ । दे॒वान् । नम᳚सा । उ॒प॒॑शिक्ष᳚न् ।
अत्रिः᳚ । सूर्य᳚स्य । दि॒वि । चक्षुः᳚ । आ । अ॒धा॒त् । स्वः᳚॑भानोः । अप᳚ । मा॒याः । अ॒घु॒क्ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मा ब्राह्मणोत्रिः ग्राव्णः अभिषवसाधनाययुयुजानः युंजन् इन्द्रार्थंसोममभिषुण्वन्नित्यर्थः तथा कीरिण कीर्यतेविक्षिप्यतेइतिकीरि स्तोत्रं तेनदेवान् सपर्यन् पूजयन् किंच नमसान्नेनहविर्लक्षणेननमस्कारेणवा उपशिक्षन् शिक्षतिर्दानार्थोत्रप्रसाधनेवर्तते प्रसाधयन् एवमुक्तैः साधनैः सूर्यस्यसर्वप्रेरकस्यचक्षुः सर्वस्यव्यापकंमंडलं दिवि अन्तरिक्षे आधात् निस्तमस्कंकृतवानित्यर्थः तदेवस्पष्टयति-स्वर्भानोरेतन्नामकस्यासुरस्यमायाः स्वाश्रयमया मोहयन्ती परान् तथाकुर्वन्ती मायेत्युच्यते तादृशीर्मायाः तुरीयेण ब्रह्मणेत्युक्तं तदेतदुक्तं यत्तुरीयंब्रह्मतेनात्रिः सहायः इन्द्रोपाघुक्षत् अपजुगोप न्यवारयदित्यर्थः अथवातृतीयपादएवंव्याख्येयः सूर्यस्यदिविपूर्वमावृतेप्रकाशेतदपनोद्यस्वकीयंचक्षुराधात् निवारणंतेजः संस्त्यायंदृष्टवानित्यर्थः स्वर्भानुमाययासूर्यस्यावृत्तिः हारिद्रविकेसमाम्नातास्वर्भानुश्चासुरःसूर्यंतमसाविध्यत्तस्मैदेवाःप्रायश्चित्तिमैच्छन् तस्ययत्प्रथमंतमोपाघ्नन् साकृष्णाविरभवद्यद्दितीयं -साफाल्गुनीयत्तृतीयंसावलक्षीयदध्यस्थादपाकृंतन्नित्यादि ॥ ८ ॥

5.40.9
यं वै सूर्यं॒ स्व᳚र्भानु॒स्तम॒सावि᳚ध्यदासु॒रः ।
अत्र᳚य॒स्तमन्व᳚विन्दन्न॒ह्य१॒᳚न्ये अश᳚क्नुवन् ॥
▶ पदपाठः (Word-by-word)
यम् । वै । सूर्य᳚म् । स्वः᳚॑भानुः । तम᳚सा । अवि᳚ध्यत् । आ॒सु॒रः ।
अत्र᳚यः । तम् । अनु᳚ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश᳚क्नुवन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रिकृतंसामर्थ्यमनुवदति यंवैसूर्यमिति निगतव्याख्यैषा अत्रयस्तंसूर्यंअन्वविन्दन् इन्द्रार्थंसोमयाग्देवतास्तुतिनमस्कारैः अनुक्रमेणईषत्तमोविरुध्यलब्धवन्तइत्यर्थःअन्येनह्यशक्रुवन् नलब्धवन्तः खलु ॥ ९ ॥

कोनुवामितिविंशत्यृचंनवमंसूक्तं भौमस्यात्रेरार्षं षोडशीसप्तदश्यावतिजगत्यौ विंश्यैकपदाविराट् शिष्टाः सप्तदशत्रिष्टुभः विश्वेदेवादेवताः तथाचानुक्रान्तं-कोनुविंशतिर्वैश्वदेवंवैतत्षोडश्याद्यतिजगत्यावत्यैकपादेति । विनियोगोलैंगिकः ।