पञ्चमं मण्डलम् - सूक्तम् 86

6 ऋचः

ऋषिः: भौमोत्रिः देवता: इंद्राग्नी छन्दः: अनुष्टुप्

सूक्तम् 5.86 - सम्पूर्णम्

1 / 6
ऋक्: 5.86.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.86.1
इन्द्रा᳚ग्नी॒ यमव᳚थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् ।
दृ॒ळ्हा चि॒त्स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । यम् । अव᳚थः । उ॒भा । वाजे᳚षु । मर्त्य᳚म् ।
दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः᳚॑इव । त्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी उभा उभौ परस्परावियुक्तौ युवां यंमर्त्यमवथः रक्षथः वाजेषु संग्रामेषु समर्त्योदृह्ळाचित् दृढान्यपिद्युम्ना द्योतमानानि धनानिशत्रुसंबन्धीनि प्रभेदति प्रकर्षेणभिनत्ति त्रितऋषिर्वाणीरिव प्रतिवादिवाक्यानीव अथवा त्रिषुस्थानेषु वर्तमानोग्निः शत्रूणां वाक्यानीव ॥ १ ॥

5.86.2
या पृत᳚नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ ।
या पञ्च᳚ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
या । पृत᳚नासु । दु॒स्तरा᳚ । या । वाजे᳚षु । श्र॒वाय्या᳚ ।
या । पञ्च᳚ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति᳚ । ता । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या याविन्द्राग्नी पृतनासु संग्रामेषु दुष्टरा दुष्टरौ अनभिभाव्यौ या यौच वाजेषु संग्रामेषु अन्नेषुवा श्रवाय्या श्रवाय्यौ स्तुत्यौ या यौ पंचचर्षणीः चर्षणयोमनुष्याः तानभिरक्षतइतिशेषः ता तौ महानुभावौहवामहे स्तुमः ॥ २ ॥

5.86.3 समानपद
तयो॒रिदम᳚व॒च्छव᳚स्ति॒ग्मा दि॒द्युन्म॒घोनो᳚ः ।
प्रति॒ द्रुणा॒ गभ᳚स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष᳚ते ॥
▶ पदपाठः (Word-by-word)
तयोः᳚ । इत् । अम᳚॑वत् । शवः᳚ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः᳚ ।
प्रति᳚ । द्रुणा᳚ । गभ᳚स्त्योः । गवा᳚म् । वृ॒त्र॒॑घ्ने । आ । ई॒ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमवत् अभिभावुकं शवोबलं तयोरित् तयोरेव मघोनोर्मघवतोरन्नवतोर्धनवतोर्वा तयोर्दिद्युत् वज्रं तिग्मा तीक्ष्णं वर्तते गभस्त्योर्ह- स्तयोः एवंभूतौदेवौ गवामुदकानां पणिभिरपहृतानांवागवांलाभाय द्रुणा द्रुविकारेण गमनशीलेनवैकेनरथेन वृत्रघ्ने आवरकमेघहननाय तथाविधवृत्रासुरवधायवा प्रतिईषते प्रतिगच्छतः ॥ ३ ॥

5.86.4
ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह᳚वामहे ।
पती᳚ तु॒रस्य॒ राध᳚सो वि॒द्वांसा॒ गिर्व᳚णस्तमा ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । एषे᳚ । रथा᳚नाम् । इ॒न्द्रा॒ग्नी इति᳚ । ह॒वा॒म॒हे॒ ।
पती॒ इति᳚ । तु॒रस्य᳚ । राध᳚सः । वि॒द्वांसा᳚ । गिर्व᳚णः॑तमा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवौ ता तौ वक्ष्यमाणगुणौ वां युवां हवामहे स्तुमः किमर्थं रथानामेषेयुद्धे रथानांप्रेरणाय कीदृशौयुवां इन्द्राग्नीइंद्रमग्नींचपरस्परयु- ग्मभूतौ तुरस्य जंगमरूपस्य राधसोधनादिलक्षणस्य धनस्य पती स्वामिनौ विद्वांसा सर्वज्ञौ गिर्वणस्तमा गीर्भिर्वननीयतमौ ईदृशौयुवां हवामहे ॥ ४ ॥

5.86.5 समानपद
ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता᳚य दे॒वाव॒दभा᳚ ।
अर्ह᳚न्ता चित्पु॒रो द॒धें॑शे᳚व दे॒वावर्व᳚ते ॥
▶ पदपाठः (Word-by-word)
ता । वृ॒धन्तौ᳚ । अनु᳚ । द्यून् । मर्ता᳚य । दे॒वौ । अ॒दभा᳚ ।
अर्ह᳚न्ता । चि॒त् । पु॒रः । द॒धे॒ । अंशा᳚॑इव । दे॒वौ । अर्व᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ अनुद्यून् प्रतिदिनं वृधन्तौ वर्धमानौ सर्वदाप्रवृद्धावित्यर्थः वर्धनेदृष्टान्तः मर्तेव मनुष्याविव तौयथाप्रतिदिनंवर्धेते देवौ द्योत- मानौ अदभा अहिंस्यौ अर्हंताचित् प्रकर्षेणपूज्यौ चिदितिपूजायां तादृशौमहानुभावौदेवावर्वतेशलाभाय पुरोदधे पुरस्कुर्वे अंशेव अंशोनामाद्वादशादित्यमध्यवर्तीदेवः सभगस्याप्युपलक्षकः अंशाविव आदित्याविवदीप्तावित्यर्थः ॥ ५ ॥

5.86.6
ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि᳚भिः ।
ता सू॒रिषु॒ श्रवो᳚ बृ॒हद्र॒यिं गृ॒णत्सु᳚ दिधृत॒मिषं᳚ गृ॒णत्सु᳚ दिधृतम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । अहा᳚वि । ह॒व्यम् । शू॒ष्य᳚म् । घृ॒तम् । न । पू॒तम् । अद्रि᳚॑भिः ।
ता । सू॒रिषु᳚ । श्रवः᳚ । बृ॒हत् । र॒यिम् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् । इष᳚म् । गृ॒णत्॑सु᳚ । दि॒धृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एव एवं इदानींक्रियमाणप्रकारेणस्तुतिसाहित्येनेत्यर्थः इन्द्राग्निभ्यां हव्यं हविः अहावि परित्यक्तमासीत् कीदृशंतत् शूष्यं बलकरं किमिव अद्रिभिर्ग्रावभिः पूतमभिषुतं घृतंन सोमरसमिव तद्यथायुवाभ्यांप्रदीयते तद्वच्चरुपुरोडाशादिकमपि ता तौदेवौ सूरिषु मेधा- विष्वस्मासु बृहत्प्रभूतं श्रवोन्नं यशोवा रयिंधनंच दिधृतं धारयतं इषमन्नं गृणत्सु स्तुवत्सु दिधृतंपुनरुक्तिरादरार्था ॥ ६ ॥

प्रवोमहइतिनवर्चंपंचदशंसूक्तं एवयामरुदाख्यस्यात्रेयस्यमुनेरार्षं मरुद्देवताकमतिजगतीछन्दस्कं तथाचानुक्रमणिका-प्रवोनवैवया- मरुन्मारुतमतिजागतमिति । दशरात्रेषष्ठेहनितृतीयसवनेच्छावाकशस्त्रे इदंसूक्तं सूत्रितंच-एवयामरुदुक्तोवृषाकपिनेति ।