पञ्चमं मण्डलम् - सूक्तम् 27

6 ऋचः

ऋषिः: त्र्यरुणस्त्रैवृष्णस्त्रसदस्युः पौरुकुत्सः भारतोश्वमेधश्च राजानः भौमोत्रिर्वा देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 5.27 - सम्पूर्णम्

1 / 6
ऋक्: 5.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.27.1
अन᳚स्वन्ता॒ सत्प᳚तिर्मामहे मे॒ गावा॒ चेति᳚ष्ठो॒ असु᳚रो म॒घोनः᳚ ।
त्रै॒वृ॒ष्णो अ᳚ग्ने द॒शभि᳚ः स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य᳚रुणश्चिकेत ॥
▶ पदपाठः (Word-by-word)
अन᳚स्वन्ता । सत्॑प᳚तिः । म॒म॒हे॒ । मे॒ । गावा᳚ । चेति᳚ष्ठः । असु᳚रः । म॒घोनः᳚ ।
त्रै॒वृ॒ष्णः । अ॒ग्ने॒ । द॒श॑भिः᳚ । स॒हस्रैः᳚ । वैश्वा᳚नर । त्रि॑अ᳚रुणः । चि॒के॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रीराजर्षीणांदानमग्नेःपुरतोनेनसूक्तेनावर्णयत् हेवैश्वानर विश्वेषांनराणांनेतः अग्ने सत्पतिः सतांपालयिताचेतिष्ठोज्ञातृतमः असुरोबलवान् मघोनः मघवाधनवान् प्रथमार्थेङसि त्रैवृष्णः त्रिवृष्णपुत्रः त्र्यरुणः त्र्यरुणइतिनामाराजर्षिः अनस्वन्ता अनस्वन्तौ अनसाशकटेनसंपृक्तौ गावा गावौ अनड्वाहौ गवांहिरण्यानांवादशभीः सहस्रैः सहमेमह्यंममहे ददौ महिदानेसराजर्षिः चिकेत सर्वैर्जनैरनेनदानेनज्ञायते ॥ १ ॥

5.27.2
यो मे᳚ श॒ता च᳚ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति ।
वैश्वा᳚नर॒ सुष्टु᳚तो वावृधा॒नो॑ग्ने॒ यच्छ॒ त्र्य᳚रुणाय॒ शर्म᳚ ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना᳚म् । हरी॒ इति᳚ । च॒ । यु॒क्ता । सु॒॑धुरा᳚ । ददा᳚ति ।
वैश्वा᳚नर । सु॑स्तु᳚तः । व॒वृ॒धा॒नः । अग्ने᳚ । यच्छ᳚ । त्रि॑अ᳚रुणाय । शर्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्त्र्यरुणः शता शतानि सुवर्णानांगोनांगवांविंशतिंचयुक्ता रथेनयुक्तौ सुधुरा सुधुरौ सुष्ठुधुरंवहन्तौ हरी अश्वौच मे मह्यं ददाति अददात् हेवैश्वानर अग्ने सुष्टुतः अस्माभिःसम्यक् स्तुतः ववृधानोहविर्भिर्वर्धमानः त्वं तस्मै त्र्यरुणाय शर्म सुखं यच्छ प्रयच्छ ॥ २ ॥

5.27.3
ए॒वा ते᳚ अग्ने सुम॒तिं च᳚का॒नो नवि᳚ष्ठाय नव॒मं त्र॒सद᳚स्युः ।
यो मे॒ गिर᳚स्तुविजा॒तस्य᳚ पू॒र्वीर्यु॒क्तेना॒भि त्र्य᳚रुणो गृ॒णाति᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । अ॒ग्ने॒ । सु॒॑म॒तिम् । च॒का॒नः । नवि᳚ष्ठाय । न॒व॒मम् । त्र॒सद᳚स्युः ।
यः । मे॒ । गिरः᳚ । तु॒वि॒॑जा॒तस्य᳚ । पू॒र्वीः । यु॒क्तेन᳚ । अ॒भि । त्रि॑अ᳚रुणः । गृ॒णाति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्त्र्यरुणः तुविजातस्य बह्वपत्यस्य मे पूर्वीर्बह्वीः गिरः स्तुतीः श्रुत्वाप्रीतः सन् युक्तेनाभियुक्तेनमनसा अभिगृणाति इदंगृहाणेदंगृहाणेतियथामांब्रवीति एव एवं हेअग्ने नविष्ठाय अत्यन्तंस्तुत्याय ते तुभ्यं नवमं नवतमांसुमतिंस्तुतिंचकानः कामयमानस्त्रसदस्युरपिइदंगृहाणेदंगृहाणेतिमांप्रार्थितवान् ॥ ३ ॥

5.27.4
यो म॒ इति᳚ प्र॒वोच॒त्यश्व᳚मेधाय सू॒रये᳚ ।
दद᳚दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ᳚ताय॒ते ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । इति᳚ । प्र॒॑वोच᳚ति । अश्व᳚॑मेधाय । सू॒रये᳚ ।
दद᳚त् । ऋ॒चा । स॒निम् । य॒ते । दद᳚त् । मे॒धाम् । ऋ॒त॒॑य॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

योभिक्षमाणोर्थीसूरयेप्रेरकाय धनानांदात्रेवा अस्मै अश्वमेधाय राजर्षये मे मह्यं देहीति प्रवोचति प्रब्रवीति योश्वमेधंधनानिभिक्षतइत्यर्थः ऋचाग्नेःस्तोत्रेणसहयते आत्मनःसमीपंगच्छते तस्मै अर्थिने अश्वमेधः सनिं धनं ददत् ददाति हेअग्ने ऋतायते यज्ञमिच्छते तस्मै अश्वमेधायमेधांयज्ञविषयांप्रज्ञां ददत् देहि ॥ ४ ॥

5.27.5
यस्य᳚ मा परु॒षाः श॒तमु᳚द्ध॒र्षय᳚न्त्यु॒क्षणः᳚ ।
अश्व᳚मेधस्य॒ दाना॒ः सोमा᳚ इव॒ त्र्या᳚शिरः ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । मा॒ । प॒रु॒षाः । श॒तम् । उ॒त्॑ह॒र्षय᳚न्ति । उ॒क्षणः᳚ ।
अश्व᳚॑मेधस्य । दानाः᳚ । सोमाः᳚॑इव । त्रि॑आ᳚शिरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य येन अश्वमेधस्याश्वमेधेन दानादत्ताः प्ररुषाः कामानांपूरकाः शतमुक्षणः उक्षणोबलीवर्दाः मा मां उद्धर्षयन्ति उत्कर्षेणहर्षयन्ति हेअग्ने ते उक्षाणः त्र्याशिरः दधिसक्तुपयोरूपास्तिस्रआशिरः अधिश्रयणसाधनभूतायेषांतेत्र्याशिरः सोमाइव तवप्रीणनायभवन्तु ॥ ५ ॥

5.27.6
इन्द्रा᳚ग्नी शत॒दाव्न्यश्व᳚मेधे सु॒वीर्य᳚म् ।
क्ष॒त्रं धा᳚रयतं बृ॒हद्दि॒वि सूर्य᳚मिवा॒जर᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । श॒त॒॑दाव्नि᳚ । अश्व᳚॑मेधे । सु॒॑वीर्य᳚म् ।
क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य᳚म्॑इव । अ॒जर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राग्नी शतदाव्नि शतमपरिमितमर्थिभ्योधनंददातीतिशतदावा तस्मिन्नश्वमेधेराजर्षौ सुवीर्यं शोभनवीर्यसहितं बृहन्महत् अजरं जरारहितं क्षत्रं धनं धारयतं निधारयतं कथामिव दिव्यंतरिक्षे सूर्यमिव ॥ ६ ॥

समिद्धोअग्निरितिषळृचंचतुर्दशंसूक्तं अत्रेयमनुक्रमणिका-समिद्धीविश्ववारात्रेयीत्रिष्टुब्जगतीत्रिष्टुबनुष्टुब् गायत्र्याविति । आत्रीगोत्रोत्पन्नाविश्ववारानामिकाअस्यसूक्तस्यऋषिः आद्यातृतीयेत्रिष्टुभौ द्वितीयाजगती चतुर्थ्यनुष्टुप् अंत्येगायत्र्यौ अग्निर्देवता सूक्तविनियोगोलैंगिकः ।