विश्वा᳚नि॒ यो अम᳚र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य᳚ति ॥
पदपाठः (Word-by-word)
विश्वा᳚नि । यः । अम᳚र्त्यः । ह॒व्या । मर्ते᳚षु । रण्य᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
पुरुप्रियः बहुप्रियः विशः यजमानेधनस्यनिवेशकः अतिथिः यजमानानांगृहान्प्रतितिथिषु अभ्येतीत्यतिथिः तथाहयास्कः-अतिथिरभ्यतितोगृहान्भवत्यभ्येतितिथिषुपरकुलानीतिवापरगृहाणीतिवेति । एवंविधोग्निः प्रातःस्तवेत स्तूयते अमर्त्यः अमरणधर्मायोग्निः मर्तेषुमनुष्येषु यजमानेषु स्थितानि विश्वानि सर्वाणि हव्या ह्व्यानि हवींषि रण्यति कामयते ॥ १ ॥