प्रा॒तर॒ग्निः पु᳚रुप्रि॒यो वि॒शः स्त᳚वे॒ताति᳚थिः ।
विश्वा᳚नि॒ यो अम᳚र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य᳚ति ॥
विश्वा᳚नि॒ यो अम᳚र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य᳚ति ॥
पदपाठः (Word-by-word)
प्रा॒तः । अ॒ग्निः । पु॒रु॒॑प्रि॒यः । वि॒शः । स्त॒वे॒त॒ । अति᳚थिः ।
विश्वा᳚नि । यः । अम᳚र्त्यः । ह॒व्या । मर्ते᳚षु । रण्य᳚ति ॥
विश्वा᳚नि । यः । अम᳚र्त्यः । ह॒व्या । मर्ते᳚षु । रण्य᳚ति ॥
सायणभाष्यम् (Sayana Commentary)
पुरुप्रियः बहुप्रियः विशः यजमानेधनस्यनिवेशकः अतिथिः यजमानानांगृहान्प्रतितिथिषु अभ्येतीत्यतिथिः तथाहयास्कः-अतिथिरभ्यतितोगृहान्भवत्यभ्येतितिथिषुपरकुलानीतिवापरगृहाणीतिवेति । एवंविधोग्निः प्रातःस्तवेत स्तूयते अमर्त्यः अमरणधर्मायोग्निः मर्तेषुमनुष्येषु यजमानेषु स्थितानि विश्वानि सर्वाणि हव्या ह्व्यानि हवींषि रण्यति कामयते ॥ १ ॥