ऋ॒तस्य᳚ वा॒ सद᳚सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा᳚न् ॥
पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । वा॒ । सद᳚सि । त्रासी᳚थाम् । नः॒ । य॒ज्ञ॒॑य॒ते । वा॒ । प॒शु॒॑सः । न । वाजा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हिमित्रावरुणौ देवौ वांयुवां कोनु कःखलुयजमानः ऋतायन् यज्ञमिच्छन् शक्नुयादितिशेषः तस्मात्कृतंमयैवदिवः सदसिद्युलोकसंबन्धिनिस्थाने महोमहतः पार्थिवस्यसदसि ऋतस्योत्पादकस्यांतरिक्षस्यसदसि तद्धेतुत्वात्ताच्छब्द्यं त्रिषुस्थानेषुनोस्मान् त्रासीथां रक्षतं वाशब्दश्चार्थे किंच यज्ञायते यज्ञमिच्छते हविर्दात्रेच मह्यं पशुषोनवाजान् पशुषुसीदतोवाजानन्नानिक्षीरदध्यादीनीवतानियथाप्रयच्छथः तद्वदवतमिति यद्वा नशब्दश्चार्थे पशुषः पशून्वाजांश्चदत्तमित्यर्थः ॥ १ ॥