श्रवणम्

5.41.15
प॒देप᳚दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि᳚श्च ।
सिष᳚क्तु मा॒ता म॒ही र॒सा न॒ः स्मत्सू॒रिभि᳚रृजु॒हस्त᳚ ऋजु॒वनि᳚ः ॥
▶ पदपाठः (Word-by-word)
प॒दे॑प᳚दे । मे॒ । ज॒रि॒मा । नि । धा॒यि॒ । वरू᳚त्री । वा॒ । श॒क्रा । या । पा॒यु॑भिः᳚ । च॒ ।
सिस᳚क्तु । मा॒ता । म॒ही । र॒सा । नः॒ । स्मत् । सू॒रि॑भिः᳚ । ऋ॒जु॒॑हस्ता᳚ । ऋ॒जु॒॑वनिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरिमास्तुतिर्मेमदीयापदेपदे तदातदाभूमौनिधायि निधीयते स्थाप्यते क्रियतइत्यर्थः याचशक्रा शक्तासती पायुभीरक्षणैः वरूत्री अस्मदुपद्रववारयित्रीभवति वाशब्दश्चार्थे मातासर्वस्यनिर्मात्री मही महती पूज्या रसा सारभूताभूमिः सिषक्तु सेवतां नोस्माकं स्तुतिं अथवा स्तुतानोस्मान् सिषक्तु स्मच्छब्दः प्रशस्तवचनः प्रशस्तैः सूरिभिः मेधाविभिः स्तोतृभिः निमित्तैः तेषांपरिचर्ययाप्रीतेत्यर्थः ऋजुहस्ताअस्मदनुकूलहस्ताऋजुवनिः कल्याणदानाभवतु ॥ १५ ॥