अ॒भि न॒ इळा᳚ यू॒थस्य᳚ मा॒ता स्मन्न॒दीभि᳚रु॒र्वशी᳚ वा गृणातु ।
उ॒र्वशी᳚ वा बृहद्दि॒वा गृ᳚णा॒नाभ्यू᳚र्ण्वा॒ना प्र᳚भृ॒थस्या॒योः ॥
उ॒र्वशी᳚ वा बृहद्दि॒वा गृ᳚णा॒नाभ्यू᳚र्ण्वा॒ना प्र᳚भृ॒थस्या॒योः ॥
पदपाठः (Word-by-word)
अ॒भि । नः॒ । इळा᳚ । यू॒थस्य᳚ । मा॒ता । स्मत् । न॒दीभिः᳚ । उ॒र्वशी᳚ । वा॒ । गृ॒णा॒तु॒ ।
उ॒र्वशी᳚ । वा॒ । बृ॒ह॒त्॑दि॒वा । गृ॒णा॒ना । अ॒भि॒॑ऊ॒र्ण्वा॒ना । प्र॒॑भृ॒थस्य᳚ । आ॒योः ॥
उ॒र्वशी᳚ । वा॒ । बृ॒ह॒त्॑दि॒वा । गृ॒णा॒ना । अ॒भि॒॑ऊ॒र्ण्वा॒ना । प्र॒॑भृ॒थस्य᳚ । आ॒योः ॥
सायणभाष्यम् (Sayana Commentary)
अभिगृणातु नोस्मानिळाभूमिः यूथस्यगोसंघस्य मातानिर्मात्री यद्वा इळा गोरूपधरामनोः पुत्रीत्याहुः यद्वा यूथस्यमरुद्गणस्य निर्मात्री इळामाध्यमिकीवाक् अथवोर्वशीमाध्यमिकीवाक् नदीभिर्गङ्गादिभिः सह गृणातु स्मच्छब्दः प्रशस्तवचनइत्युक्तं प्राशस्त्यंगृणातु अथवा अन्तरिक्षस्थानादेवता नोस्माकं प्राशस्त्यंगृणातु वाअथवा उर्वशीबहूनांवशयित्री आदित्याख्याद्युस्थानदेवता नःप्राशस्त्यंगृणातु कीदृशीसा उर्वशीबृहद्दिवाप्रभूतदीप्तिः गृणानाशब्दयन्ती अस्मदीयंकर्मप्रशंसन्ती अभ्यूर्ण्वानाआच्छादयन्ती कं आयोः आयुंमनुष्यंयजमानं केन प्रभृथस्यतेजसोवोदकस्यवादानेन प्रभृथस्यतेजसोवोदकस्येतिनिरुक्तम् । अथवा प्रभृथस्यप्रभरणवताअयोर्यज्ञमभ्यूर्ण्वानाआच्छादयन्ती ॥ १९ ॥