श्रवणम्

5.41.7
उप᳚ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय᳚द्भिर॒र्कैः ।
उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । वः॒ । एषे᳚ । वन्द्ये᳚भिः । शू॒षैः । प्र । य॒ह्वी इति᳚ । दि॒वः । चि॒तय᳚त्॑भिः । अ॒र्कैः ।
उ॒षसा॒नक्ता᳚ । वि॒दुषी᳚ इ॒वेति᳚ वि॒दुषी᳚॑इव । विश्व᳚म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या᳚य । य॒ज्ञम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषासानक्ता अहोरात्राभिमानिदेवते यह्वी महत्यौ वन्द्येभिर्वन्दनार्हैरितरैः देवैः सहदिवोन्तरिक्षादविशेषेणसर्वप्रदेशात् वोयुष्मभ्यंउपप्रैषे उपप्रापयामिहविः ईषिः प्रापणकर्मास्यादुपप्राभिः समन्वितः शूषैः सुखकरैश्चितयद्भिः ज्ञापयद्भिरर्कैर्मंत्रैः सहोपप्रापयामि हेउक्तेदेवते भवत्यौ विश्वं सर्वंकर्तव्यजातं विदुषीइव जानंत्याविव मर्त्याययजमानाययज्ञमावहतः अभिमुखंप्रापयतः हेति पूरणः यद्वा शूषैरित्यादीनितृतीयाबहुवचनान्तानिवन्द्येभिरित्यस्यविशेषणानीतिकेचिदाहुः ॥ ७ ॥