श्रवणम्

5.41.16
क॒था दा᳚शेम॒ नम᳚सा सु॒दानू᳚नेव॒या म॒रुतो॒ अच्छो᳚क्तौ॒ प्रश्र᳚वसो म॒रुतो॒ अच्छो᳚क्तौ ।
मा नो॑हि᳚र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनि᳚ः ॥
▶ पदपाठः (Word-by-word)
क॒था । दा॒शे॒म॒ । नम᳚सा । सु॒॑दानू᳚न् । ए॒व॒॑या । म॒रुतः᳚ । अच्छ᳚॑उक्तौ । प्र॑श्र᳚वसः । म॒रुतः᳚ । अच्छ᳚॑उक्तौ ।
मा । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । रि॒षे । धा॒त् । अ॒स्माक᳚म् । भू॒त् । उ॒प॒मा॒ति॒॑वनिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं कथा केनप्रकारेण दाशेम परिचरेम नमसास्तोत्रेणान्नेनवासुदानून् शोभनदानान्मरुतः एवयाएवंक्रियमाणप्रकारेणअच्छेक्तौ आभिमुख्येनवचनेनिमित्तेसति तान्मरुतः कथंपरिचरेम तेषांदुराराध्यत्वादितिभावः कथं प्रश्रवसः प्रकृष्टान्नाभवन्ति अच्छोक्तौ अभिगंत्र्युक्तिः स्तुतिर्यस्यतादृशेमयि यद्वा प्रश्रवसःप्रकृष्टान्नस्यममअच्छोक्तौस्तोत्रनिमित्तेसति मरुतः कथाकेनप्रकारेणदाशेम पुनरुक्तिरादरार्था अहिर्बुध्र्योदेवोस्मान् रिषे हिंसकाय माधात् मास्थापयतु सदेवोस्माकंभूत् भवतु उपमातिवनिः शत्रूणांहन्ता ॥ १६ ॥