पञ्चमं मण्डलम् - सूक्तम् 23

4 ऋचः

ऋषिः: द्युम्नो विचर्षणिरात्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.23 - सम्पूर्णम्

1 / 4
ऋक्: 5.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
5.23.1 समानपद
अग्ने॒ सह᳚न्त॒मा भ᳚र द्यु॒म्नस्य᳚ प्रा॒सहा᳚ र॒यिम् ।
विश्वा॒ यश्च᳚र्ष॒णीर॒भ्या॒३॒᳚सा वाजे᳚षु सा॒सह᳚त् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । सह᳚न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य᳚ । प्र॒॑सहा᳚ । र॒यिम् ।
विश्वाः᳚ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे᳚षु । स॒सह᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने प्रासहा प्रकृष्टेनबलेनसहंतं शत्रूनभिभवन्तं रयिं पुत्रं द्युम्नस्य द्युम्नाय मम ऋषये आभर आहर चतुर्थ्यर्थेषष्ठी एतदेवविवृणोति यःपुत्रः आसा आस्येन स्तोत्रेणयुक्त सन् वाजेषु युद्धेषु अभि आभिमुख्येनगतान् विश्वाः सर्वान् चर्षणीर्मनुष्यान् शत्रून् ससहत् अभिभवति ॥ १ ॥

5.23.2 समानपद
तम᳚ग्ने पृतना॒षहं᳚ र॒यिं स᳚हस्व॒ आ भ᳚र ।
त्वं हि स॒त्यो अद्भु᳚तो दा॒ता वाज᳚स्य॒ गोम᳚तः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ग्ने॒ । पृ॒त॒ना॒॑सह᳚म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।
त्वम् । हि । स॒त्यः । अद्भु᳚तः । दा॒ता । वाज᳚स्य । गो॑म᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने हेसहस्वः बलवन् पृतनासहं पृतनाःसेनाः अभिभवितारं रयिं पुत्रं तं त्वमाभर आहर त्वंहिसत्यःसत्यभूतः अद्भुतोमहान् गोमतः गोभिर्युक्तस्यवाजस्यान्नस्य दाता ॥ २ ॥

5.23.3 समानपद
विश्वे॒ हि त्वा᳚ स॒जोष᳚सो॒ जना᳚सो वृ॒क्तब᳚र्हिषः ।
होता᳚रं॒ सद्म᳚सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । हि । त्वा॒ । स॒॑जोष᳚सः । जना᳚सः । वृ॒क्त॑ब᳚र्हिषः ।
होता᳚रम् । सद्म᳚॑सु । प्रि॒यम् । व्यन्ति᳚ । वार्या᳚ । पु॒रु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सजोषसः सहप्रीयमाणाः वृक्तबर्हिषोलूनबर्हिषोविश्वेसर्वेजनासोजनाः ऋत्विजः सद्मसु यज्ञग्ऋहेषु होतारं देवानामाह्वातारं प्रियं सर्वेषांप्रीतिकरं त्वा त्वां पुरु पुरूणि बहूनि वार्या वरणीयानिधनानि व्यंति याचन्ते ॥ ३ ॥

5.23.4
स हि ष्मा᳚ वि॒श्वच᳚र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे ।
अग्न᳚ ए॒षु क्षये॒ष्वा रे॒वन्न᳚ः शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ॥
▶ पदपाठः (Word-by-word)
सः । हि । स्म॒ । वि॒श्व॑च᳚र्षणिः । अ॒भि॑मा᳚ति । सहः᳚ । द॒धे ।
अग्ने᳚ । ए॒षु । क्षये᳚षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒॑मत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सः लोकेषुप्रसिद्धोविश्वचर्षणिरुषिः अभिमाति शत्रूणांहिंसकंसहोबलंदधे धारयतु हेशुक्र शोचिष्मन् त्वं नोस्मदीयेषुक्षयेषुगृहेषुरेवत् धनयुक्तंयथाभवतितथाआदीदिहि आदीप्यस्व हेपावक पापानांशोधक अग्ने त्वं द्युमत् दीप्तियुक्तं यशोयुक्तंच दीदिहि दीप्यस्व ॥ ४ ॥

अग्नेत्वंनइतिचतुरृचंदशमंसूक्तं अत्रानुक्रमणिका-अग्नेत्वंगौपायनालौपायनावाबन्धुःसुबन्धुश्रुतबन्धुर्विप्रबन्धुश्चैकर्चाद्वैपदमिति । विंशतिकाद्विपदाविराजइत्युक्तत्वाच्चतस्रोद्विपदाविराजः बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चक्रमेणचतसृणामृषयः तेचगौपायनालौपायनावा अग्निर्देवता महापितृयज्ञेआहवनीयंप्रतिगच्छन्तऋत्विजः इदंसूक्तंजपेयुः तथाचसूत्रितं-अथैनमभिसमायन्ति माप्रगामाग्नेत्वंनइतिजपन्तइति । दशरात्रेषष्ठेहनितृतीयसवनेमैत्रावरुणस्याअग्नेत्वमितिद्वे तंत्वाशोचिष्ठेत्येका एवंमिलितोद्वैपदस्तृचः स्तोत्रियः तथैवसूत्रितं-अग्नेत्वंनोअन्तमोग्नेभवसुषमिधेति ।