पञ्चमं मण्डलम् - सूक्तम् 82

9 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: सविता छन्दः: अनुष्टुप्

सूक्तम् 5.82 - सम्पूर्णम्

1 / 9
ऋक्: 5.82.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
5.82.1
तत्स᳚वि॒तुर्वृ᳚णीमहे व॒यं दे॒वस्य॒ भोज᳚नम् ।
श्रेष्ठं᳚ सर्व॒धात᳚मं॒ तुरं॒ भग᳚स्य धीमहि ॥
▶ पदपाठः (Word-by-word)
तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य᳚ । भोज᳚नम् ।
श्रेष्ठ᳚म् । स॒र्व॒॑धात᳚मम् । तुर᳚म् । भग᳚स्य । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्राप्यत्वेनप्रसिद्धं भोजनं भोग्यंधनं वयंस्तोतारोवृणीमहे प्रार्थयामः कस्यधनं सवितुः प्रेरकस्यदेवस्य स्वभूतं लब्ध्वाच श्रेष्ठं प्रशस्यं सर्वधातमं सर्वधातृतमं सर्वभोग्यप्रदमित्यर्थः तुरं शत्रूणांहिंसकं धनेनशत्रून्हन्तुंशक्यत्वात् तादृशंधनं भगस्य भजनीयस्य सवितुरनुग्रहात् धीमहि धारयाम उपभोगंकरवामेत्यर्थः अथवा धनंवृणीमहे अर्थित्वाच्च लभेमहीति ॥ १ ॥

5.82.2
अस्य॒ हि स्वय᳚शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।
न मि॒नन्ति᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । हि । स्वय᳚शः॑तरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् ।
न । मि॒नन्ति᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सवितुः स्वयशस्तरं स्वयमसाधारणं यशोयस्यातिशयेनभवतितत् तादृशं प्रियं सर्वेषांप्रियभूतं स्वराज्यं स्वयमेवराजमानत्वमै- श्वर्यं कच्चन केचिदपिअसुरादयोनमिनन्ति नहिंसन्ति ॥ २ ॥

5.82.3
स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति᳚ सवि॒ता भगः᳚ ।
तं भा॒गं चि॒त्रमी᳚महे ॥
▶ पदपाठः (Word-by-word)
सः । हि । रत्ना᳚नि । दा॒शुषे᳚ । सु॒वाति᳚ । स॒वि॒ता । भगः᳚ ।
तम् । भा॒गम् । चि॒त्रम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखलु सविता भगोभजनीयोदेवोदाशुषे हविर्दात्रेमह्यं रत्नानि रमणीयानिधनानि सुवाति प्रेरयतिप्रयच्छति तंदेवं भागं भजनीयं चित्रं चायनीयंधनं ईमहे याचामहे ॥ ३ ॥ अद्यानइतिचतुर्थीपंचमीभ्याममनोज्ञस्वप्नदर्शनेप्रत्यृचंजुहुयात् अद्यानोदेवसवितरितिद्वाभ्यामितिहिसूत्रितम् ।

5.82.4
अ॒द्या नो᳚ देव सवितः प्र॒जाव᳚त्सावी॒ः सौभ᳚गम् ।
परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव ॥
▶ पदपाठः (Word-by-word)
अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति᳚ । प्र॒जा॑व᳚त् । सा॒वीः॒ । सौभ᳚गम् ।
परा᳚ । दुः॒॑स्वप्न्य᳚म् । सु॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवितर्देव नोस्मभ्यमद्यास्मिन्यागदिने प्रजावत्पुत्राद्युपेतं सौभगं धनं सावीः प्रेरय दुःस्वप्न्यं दुःस्वप्नंदुःस्वप्नवद्दुः खकरंदारिद्भ्यं परासुव दूरेप्रेरय ॥ ४ ॥

5.82.5 समानपद
विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव ।
यद्भ॒द्रं तन्न॒ आ सु᳚व ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒॑इ॒तानि᳚ । परा᳚ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवितर्देव त्वं विश्वानि दुरितानि परासुव यद्भद्रं प्रजापशुगृहादिकं तन्नोस्मभ्यमसुव अस्मदभिमुखंप्रेरय प्रजावैभद्वंपशवोभद्रंगृहंभद्र- मितिहिश्रुतिः ॥ ५ ॥

5.82.6
अना᳚गसो॒ अदि᳚तये दे॒वस्य᳚ सवि॒तुः स॒वे ।
विश्वा᳚ वा॒मानि᳚ धीमहि ॥
▶ पदपाठः (Word-by-word)
अना᳚गसः । अदि᳚तये । दे॒वस्य᳚ । स॒वि॒तुः । स॒वे ।
विश्वा᳚ । वा॒मानि᳚ । धी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमनुष्ठातारः सवितुः प्रेरकस्य देवस्य सवे अनुज्ञायांसत्यां अदितये अखंडनीयायै देव्यैभूम्यै अनागसःस्याम अनपराधिनोभवेम भूम्यांहिपापाःसंभवन्ति अपगतेष्वागःसुविश्वा सर्वाणि वामानि वननीयानि धनानि धीमहिधारयाम ॥ ६ ॥ चातुर्मास्येषुवैश्व्देवेपर्वणिसावित्रस्यद्वादशकपालस्याविश्वदेवमित्यनुवाक्या सूत्रितंच-आविश्वदेवंसत्पतिंवाममद्यसवितरिति । प्रायणीयएषैवसवितुरनुवाक्या सूत्रितंच-आविश्वदेवं सत्पतिंयइमाविश्वाजातानीति । देवसुवांहविष्वेषैवसवितुरनुवाक्या सूत्रितंच- आविश्वदेवंसप्ततिंनप्रमियेसवितुर्दैव्यस्यतदिति ।

5.82.7
आ वि॒श्वदे᳚वं॒ सत्प᳚तिं सू॒क्तैर॒द्या वृ᳚णीमहे ।
स॒त्यस᳚वं सवि॒तार᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । वि॒श्व॑दे᳚वम् । सत्॑प᳚तिम् । सु॒॑उ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ।
स॒त्य॑स᳚वम् । स॒वि॒तार᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वदेवं विश्वेदेवायस्यवशेभवन्ति तंतादृशं तंहिसर्वात्मत्वादिन्द्रंमित्रंवरुणमग्निमाहुरित्यादिश्रुतेरितरेषांतद्विभूतित्वात् सत्पतिं स- तामनुष्ठातॄणांपालकं सत्यसवं सत्यानुज्ञं सवितारंदेवं अद्यास्मिन्यागदिने सूक्तैरावृणीमहे संभजामहे ॥ ७ ॥

5.82.8
य इ॒मे उ॒भे अह᳚नी पु॒र एत्यप्र᳚युच्छन् ।
स्वा॒धीर्दे॒वः स᳚वि॒ता ॥
▶ पदपाठः (Word-by-word)
यः । इ॒मे इति᳚ । उ॒भे इति᳚ । अह᳚नी॒ इति᳚ । पु॒रः । एति᳚ । अप्र᳚॑युच्छन् ।
सु॒॑आ॒धीः । दे॒वः । स॒वि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःसवितादेवः स्वाधीः शोभनाध्यानः सुकर्मावासन् इमे अहनी रात्र्यहनी तयोःपुरः पुरस्तादप्रयुच्छन् अप्रमाद्यन्नेति गच्छति तमावृणीमहइतिसंबन्धः ॥ ८ ॥ प्रायणीयेयइमाविश्वेतिसवितुर्याज्यासूत्रितंच-यइमाविश्वाजातानिसुत्रामाणंपृथिवींद्यामनेहसमिति । अश्वमेधेश्वमुत्सृज्यानुसवनंसा- वित्रीष्टिःकार्यातस्यामेषामाध्यन्दिनसवनेनुवाक्या सूत्रितंच-यइमाविश्वाजातान्यादेवोयातुसवितासुरत्नइति ।

5.82.9
य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय᳚ति॒ श्लोके᳚न ।
प्र च᳚ सु॒वाति᳚ सवि॒ता ॥
▶ पदपाठः (Word-by-word)
यः । इ॒मा । विश्वा᳚ । जा॒तानि᳚ । आ॒॑श्रा॒वय᳚ति । श्लोके᳚न ।
प्र । च॒ । सु॒वाति᳚ । स॒वि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

योदेवइमा इमानि विश्वा सर्वाणि जातानि उत्पन्नान्प्राणिनः जंगमानित्यर्थः तान् श्लोकेन यशसा आश्रावयति सर्वेप्यस्यस्तुतिंश्रृण्व- न्तीत्यर्थः अथवा गर्जनशब्देन सर्वाणीमान्युत्पन्नानि आश्रावयति वृष्ट्युन्मुखः सन् किंच सविता प्रसुवातिचप्रेरयति तंवृणीमहइत्यर्थः ॥ ९ ॥

अच्छावदेतिदशर्चमेकादशंसूक्तं भौमस्यात्रेरार्षं अत्रेयमनुक्रमणिका-अच्छदशात्रिः पार्जन्यमुपाद्यास्तिस्रोजगत्यः उपान्त्यानुष्टुबिति यत्पर्जन्येत्येषानवम्यनुष्टुप् विवृक्षानित्याद्यास्तिस्रोजगत्यः शिष्टाःषट् त्रिष्टुभः पर्जन्योदेवता बृहदृग्विधानेशौनकः अच्छावदेतिसूक्तंतुवृ- ष्टिकामःप्रयोजयेत् ॥

निराहारःक्लिन्नवासाअचिरेणप्रवर्षति ॥ १ ॥

हुत्वायुतंवैतसीनांक्षीराक्तानां हुताशने ॥ महद्वर्षमवाप्नोतिसूक्तेना- च्छावदेनहि ॥ २ ॥

अनेनसूक्तेनप्रत्यृचंवादिशउपस्थेयाः सूत्रितंच-संस्थितायांसर्वादिशउपतिष्ठेत अच्छावदतवसंगीर्भिराभिरिचतसृभिः प्रत्यृचं सूक्तेनवेति ।