अपा᳚वृत व्र॒जिनी॒रुत्स्व᳚र्गा॒द्वि दुरो॒ मानु᳚षीर्दे॒व आ᳚वः ॥
पदपाठः (Word-by-word)
अप᳚ । अ॒वृ॒त॒ । व्र॒जिनीः᳚ । उत् । स्वः᳚ । गा॒त् । वि । दुरः᳚ । मानु᳚षीः । दे॒वः । आ॒व॒रित्या᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
अत्रेन्द्रादयोलिंगोक्तदेवताः अत्रांगिरसां पणिभिरपहृत्यगिरेरधः स्थापितानांगवामिन्द्रेणविमोकःप्रतिपाद्यते विदाः अवेदयदिन्द्रः किं गानिगूढाः इतिसंबन्धः किंकुर्वन् उक्थैरंगिरसांस्तुतिभिः निमित्तभूताभीः अद्रिं वज्रं विष्यन् प्रक्षिपन् रक्षकाणामुपरि गिरिभेदनायच विष्यन् आयत्याः आगामिन्याउषसःसंबन्धिनोर्चिनोरश्मयोगुः अगच्छन् सर्वत्रप्रसृताअभवन् अपावृत अपावृणोत् व्रजिनीः तमः पुंजवतीर्निशाः स्वः स्वरणशीलआदित्यः उद्बात् उदगात् तथाकृत्वा मानुषीः मनुष्यसंबन्धिनीः दुरोद्वाराणि देवः सूर्योव्यावः व्यवृणोत् अन्धकारापनयनेनमनुष्यादिव्यवहारायाकरोदित्यर्थः ॥ १ ॥