वि सूर्यो᳚ अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद्गवां᳚ मा॒ता जा᳚न॒ती गा᳚त् ।
धन्व᳚र्णसो न॒द्य१॒᳚ः खादो᳚अर्णा॒ः स्थूणे᳚व॒ सुमि᳚ता दृंहत॒ द्यौः ॥
धन्व᳚र्णसो न॒द्य१॒᳚ः खादो᳚अर्णा॒ः स्थूणे᳚व॒ सुमि᳚ता दृंहत॒ द्यौः ॥
पदपाठः (Word-by-word)
वि । सूर्यः᳚ । अ॒मति᳚म् । न । श्रिय᳚म् । सा॒त् । आ । ऊ॒र्वात् । गवा᳚म् । मा॒ता । जा॒न॒ती । गा॒त् ।
धन्व᳚॑अर्णसः । न॒द्यः᳚ । खादः᳚॑अर्णाः । स्थूणा᳚॑इव । सु॑मि᳚ता । दृं॒ह॒त॒ । द्यौः ॥
धन्व᳚॑अर्णसः । न॒द्यः᳚ । खादः᳚॑अर्णाः । स्थूणा᳚॑इव । सु॑मि᳚ता । दृं॒ह॒त॒ । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
सूर्योदेवः श्रियंदीप्तिं विसात् विभजते प्रकाशयतीत्यर्थः अमतिंन रूपनामैतत् रूपमिव्द्रव्यं यथा द्रव्याणि घटपटादीनिनीलपीतादिरूपंलभन्तेतद्वत् तथा गवांरश्मीनांमातोषा जानती सूर्यउदेष्यति मयाच व्युच्छनंकर्तव्यमितिजानती ऊर्वात् महतोन्तरिक्षात् आगादागच्छति तथानद्यश्च धन्वर्णसः धन्वतिर्गतिकर्मा धन्वंति गच्छन्ति अर्णांसि यासु तास्तथोक्ताः दीर्घाभावश्छान्दसः खादोअर्णाः भक्षितकूलोदकाः कूलंकषाइत्यर्थः नद्यश्चैवंरूपाभवन्ति किंच द्यौश्चसुमिता सुष्ठुगृहेस्थापिता स्थूणेव गृहाधारस्तंभइव दृंहत दृढाभवत् एतत्सर्वंसूर्यस्याज्ञयेतिभावः ॥ २ ॥