तस्मा॒ अमृ᳚ध्रा उ॒षसो॒ व्यु᳚च्छा॒न्य इन्द्रा᳚य सु॒नवा॒मेत्याह᳚ ॥
पदपाठः (Word-by-word)
तस्मै᳚ । अमृ᳚ध्राः । उ॒षसः᳚ । वि । उ॒च्छा॒न् । यः । इन्द्रा᳚य । सु॒नवा᳚म । इति᳚ । आह᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सूर्यस्यभानुनातेजसासह आजुह्वानः सर्वत्रहूयमानः कर्मणिकर्तृप्रत्ययः घृतपृष्ठः प्रदीप्तज्वालः घृतयुक्तपृष्ठप्रदेशोवा स्वंचाः स्वंचनोग्निः संयततेसम्यक् प्रयत्नंकरोति उदयकालेह्यग्नयःप्रज्वाल्यन्ते तस्मात्कारणात् योयजमानः इन्द्राय सुनवामेत्याहबूतेअध्वर्युंप्रति तस्मैयजमानाय अम्रुध्राः अहिंसिताः उषसोव्युच्छान् व्युछन्तु उदयकालेग्निः प्रज्वालिवस्तस्मात्सोमयागंकुर्मइतियोब्रूतेतस्यसुदिनानि- निभवंतीत्यर्थः ॥ १ ॥