पञ्चमं मण्डलम् - सूक्तम् 85

8 ऋचः

ऋषिः: भौमोत्रिः देवता: वरुणः छन्दः: त्रिष्टुप्

सूक्तम् 5.85 - सम्पूर्णम्

1 / 8
ऋक्: 5.85.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
5.85.1
प्र स॒म्राजे᳚ बृ॒हद᳚र्चा गभी॒रं ब्रह्म᳚ प्रि॒यं वरु᳚णाय श्रु॒ताय᳚ ।
वि यो ज॒घान᳚ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ॥
▶ पदपाठः (Word-by-word)
प्र । स॒म्॑राजे᳚ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म᳚ । प्रि॒यम् । वरु᳚णाय । श्रु॒ताय᳚ ।
वि । यः । ज॒घान᳚ । श॒मि॒ता॑इ᳚व । चर्म᳚ । उ॒प॒॑स्तिरे᳚ । पृ॒थि॒वीम् । सूर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रिः स्वात्मानंसंबोध्य ब्रवीति हेअत्रे त्वं सम्राजे सम्यग्राजमानायईश्वराय श्रुताय सर्वत्रश्रूयमाणाय वरुणाय उपद्रवस्यनिवारकाय जनानामावरकाय एतन्नामकायदेवाय बृहत्प्रभूतं गभीरं दुरवगाहं बह्वर्थोपेतं प्रियं प्रियभूतं ब्रह्म स्तोत्ररूपंकर्म प्रार्च प्रार्चय प्रोच्चारये- त्यर्थः योवरुणः शमितेवचर्म शमितापशुविशसनकर्ता यथोपस्तरणाय चर्म हन्ति तद्वत्पृथिवीं विस्तीर्णमन्तरिक्षं तृतीयस्यांपृथिव्यामिति श्रुतेरन्तरिक्षस्यापिप्रुथिवीशब्दवाच्यर्त्वं सूर्याय सूर्यस्य उपस्तिरे आस्तरणाय विजघान विस्तारयामास विसृतंहि व्यवहारयोग्यं भवति तस्माद्भ्यवहारायान्तरिक्षं विस्तारितवान् उरुंहिराजावरुणश्चकारेतिह्युक्तम् ॥ १ ॥

5.85.2
वने᳚षु॒ व्य१॒᳚न्तरि᳚क्षं ततान॒ वाज॒मर्व᳚त्सु॒ पय᳚ उ॒स्रिया᳚सु ।
हृ॒त्सु क्रतुं॒ वरु᳚णो अ॒प्स्व१॒᳚ग्निं दि॒वि सूर्य᳚मदधा॒त्सोम॒मद्रौ᳚ ॥
▶ पदपाठः (Word-by-word)
वने᳚षु । वि । अ॒न्तरि᳚क्षम् । त॒ता॒न॒ । वाज᳚म् । अर्व᳚त्॑सु । पयः᳚ । उ॒स्रिया᳚सु ।
हृ॒त्॑सु । क्रतु᳚म् । वरु᳚णः । अ॒प्॑सु । अ॒ग्निम् । दि॒वि । सूर्य᳚म् । अ॒द॒धा॒त् । सोम᳚म् । अद्रौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंवरुणोवनेषुवृक्षाग्रेषु अन्तरिक्षंविततान विस्तारितवान् तथावाजसनेयकं वनेषुहीदंएषु वृक्षाग्रेष्वन्तरिक्षंविततं तस्मादाहवनेषु व्यन्तरिक्षंततानेति वाजं बलमर्वत्सु अश्वेषु ततान पयःक्षीरमुस्रियासु गोषु उस्रियेति गोनाम उस्राविणोस्यांभोगाइतितद्भ्युत्पत्तिः हृत्सु हृदयेषु क्रतुं कर्मसंकल्पं यद्धि मनसाध्यायति तत्कर्मणाकरोति अप्सूदकेषुअग्निं नैद्युतं और्वंवा सर्वत्र विततानेतिसंबन्धःकिंच दिवि द्युलो- के सूर्यमदधात् स्थापितवान्त्सोमंचाद्रौपर्वते अदधात् ॥ २ ॥

5.85.3
नी॒चीन᳚बारं॒ वरु᳚ण॒ः कव᳚न्धं॒ प्र स᳚सर्ज॒ रोद᳚सी अ॒न्तरि᳚क्षम् ।
तेन॒ विश्व᳚स्य॒ भुव᳚नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु᳚नत्ति॒ भूम᳚ ॥
▶ पदपाठः (Word-by-word)
नी॒चीन᳚॑बारम् । वरु᳚णः । कव᳚न्धम् । प्र । स॒स॒र्ज॒ । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ।
तेन᳚ । विश्व᳚स्य । भुव᳚नस्य । राजा᳚ । यव᳚म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नीचीनबारं अधोमुखंबिलं प्रससर्ज कृतवान् कं कवंधं कवनमुदकं तद्धीयतेअत्रेतिकवन्धोमेघः तंतथाकरोत् अथवा कवन्धमुदकं तदुद- कं नीचीनबारं नीचीननिर्गमनबिलंचकारमेघंविदार्योदकमधोमुखंचकारेत्यर्थः किंप्रतीतीत्युच्यते रोदसी द्यावापृथिव्यौ अन्तरिक्षंच प्रति लोकत्रयहितायेत्यर्थः तेनोदकेन विश्वस्यसर्वस्यभुवनस्य भूतजातस्य राजा स्वामीवरुणोभूम भूमिं व्युनत्तिक्लेदयतिवृष्टिः सेक्ता पुमान् यवंन यवमिवयवान् यथाप्ररोहायसर्वत्रप्रसारयतितद्वत् भूमिं सर्वत्रोनत्ति अथवावृष्टिर्वरुणइतिसंबन्धः वर्षकःपर्जन्यइत्यर्थः अस्मिन्पक्षे- यवंपुरुषइवेतिपुरुषशब्दोध्याहार्यः अत्रनीचीनबारंवरुणःकबन्धमित्यादिनिरुक्तंद्रष्टव्यम् ॥ ३ ॥

5.85.4
उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु᳚णो॒ वष्ट्यादित् ।
सम॒भ्रेण᳚ वसत॒ पर्व᳚तासस्तविषी॒यन्त᳚ः श्रथयन्त वी॒राः ॥
▶ पदपाठः (Word-by-word)
उ॒नत्ति᳚ । भूमि᳚म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु᳚णः । वष्टि᳚ । आत् । इत् ।
सम् । अ॒भ्रेण᳚ । व॒स॒त॒ । पर्व᳚तासः । त॒वि॒षी॒॑यन्तः᳚ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणोभूमिंपृथिवीं प्रथितमन्तरिक्षं अन्तरिक्षस्यापिपृथिवीशब्दवाच्यत्वं पूर्वमुक्तं उतापिच द्यां द्युलोकं उनत्ति क्लेदयति यदायंदुग्धं उदकपूरणं वष्टि कामयते अथवा दुग्धमुदकं तेनतत्कार्यमोषध्यादिकंलक्ष्यते ओषध्यादयः प्रवर्धन्तामितियदाकामयते आदित् अनन्तरमे- व संवसत् समाच्छादयन्ति केपर्वतासः पर्ववन्तोद्रयः केन अभ्रेणमेघेन किंच विषीयन्तोबलमिछन्तोवीराविशेषेणवृष्टेः प्रेरयितारोमरुतः श्रथयन्त श्रथयन्तिमेघान् ॥ ४ ॥

5.85.5
इ॒मामू॒ ष्वा᳚सु॒रस्य᳚ श्रु॒तस्य᳚ म॒हीं मा॒यां वरु᳚णस्य॒ प्र वो᳚चम् ।
माने᳚नेव तस्थि॒वा{4} अ॒न्तरि᳚क्षे॒ वि यो म॒मे पृ᳚थि॒वीं सूर्ये᳚ण ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ऊं॒ इति᳚ । सु । आ॒सु॒रस्य᳚ । श्रु॒तस्य᳚ । म॒हीम् । मा॒याम् । वरु᳚णस्य । प्र । वो॒च॒म् ।
माने᳚न॑इव । त॒स्थि॒॑वान् । अ॒न्तरि᳚क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसुरस्य असुरसंबन्धिनः असुराणामस्यचवध्यघातकभावः संबन्धः असुरहन्तुरित्यर्थः अथवा असुरोमेघः प्राणदानात्तत्संबन्धिनः श्रुतस्य विश्रुतस्य महीं महतीं इमां मायां प्रज्ञां प्रवोचं प्रब्रवीमि कैषामायेतिसोच्यते योवरुणोन्तरिक्षेतस्थिवान् तिष्ठन् मानेनेव दंडेनेव सूर्येण पृथिवीमन्तरिक्षं विममे परिच्छिनत्ति तस्यैषामाया ॥ ५ ॥

5.85.6
इ॒मामू॒ नु क॒वित᳚मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द᳚धर्ष ।
एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन᳚यः समु॒द्रम् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ऊं॒ इति᳚ । नु । क॒वि॑त᳚मस्य । मा॒याम् । म॒हीम् । दे॒वस्य᳚ । नकिः᳚ । आ । द॒ध॒र्ष॒ ।
एक᳚म् । यत् । उ॒द्ना । न । पृ॒णन्ति᳚ । एनीः᳚ । आ॒॑सि॒ञ्चन्तीः᳚ । अ॒वन᳚यः । स॒मु॒द्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवितमस्य प्रकृष्टप्रज्ञस्य देवस्य द्योतमानस्य स्तुत्यस्य वा वरुणस्येमांसर्वप्रसिद्धां महीं महतीं मायां प्रज्ञां नकिर्नैवआदधर्ष नहिन- स्तिकश्चिदपि ऊन्वितिपूरणौ यद्यस्मादेकं समुद्रं उद्गा उदकेन नपृणन्ति नपूरयन्ति काः एनीः एन्यः शुभ्राः गमनशीलावा आसिंचन्ती उदकमासिंचयंत्यः अवनयोनद्यः बह्व्योनद्यः सर्वदोदकेनपूरयंत्योपि नैकमपिसमुद्रंपूरयन्तीति इदंवरुणस्य महत्कर्मेति अत्रान्तरिक्ष- विस्तारादिसमुद्रापूरणपर्यन्तंकर्म परमेश्वरस्यैवोचितं नवरुणस्येतिनवाच्यं तस्यवरुणादिरूपावस्थानात् एषब्रह्मेत्याद्रिश्रतिः ॥ ६ ॥

5.85.7
अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद्भ्रात᳚रं वा ।
वे॒शं वा॒ नित्यं᳚ वरु॒णार᳚णं वा॒ यत्सी॒माग᳚श्चकृ॒मा शि॒श्रथ॒स्तत् ॥
▶ पदपाठः (Word-by-word)
अ॒र्य॒म्य᳚म् । व॒रु॒ण॒ । मि॒त्र्य᳚म् । वा॒ । सखा᳚यम् । वा॒ । सद᳚म् । इत् । भ्रात᳚रम् । वा॒ ।
वे॒शम् । वा॒ । नित्य᳚म् । व॒रु॒ण॒ । अर᳚णम् । वा॒ । यत् । सी॒म् । आगः᳚ । च॒कृ॒म । शि॒श्रथः᳚ । तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुणअर्यम्यं अर्यमैवार्यम्यः स्वार्थिकोयत् अर्तेरिदंरूपं प्रदातारमित्यर्थः अथवा इरणान्मननाच्चशास्तीतिअर्यमा गुरुः तंवा अथवा मित्र्यं ञिमिदास्नेहनइत्यस्मात्स्वार्थिकोयत् अनुरक्तमित्यर्थः वाअथवा सखायं समानख्यानं सदमित् सर्वदैव भ्रातरंवा नित्यं निरन्तरं वेशं निकटनिकेतनवर्तिनंवा अरणंवा अशब्दमित्यर्थः अथवा रणमदातारंवा नित्यंनिरन्तरं एतान्प्रतियत्सीं यदेतदागोपराधं चकृम तच्छिश्रथोस्मत्तोविनाशय ॥ ७ ॥

5.85.8
कि॒त॒वासो॒ यद्रि᳚रि॒पुर्न दी॒वि यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म ।
सर्वा॒ ता वि ष्य᳚ शिथि॒रेव᳚ दे॒वाधा᳚ ते स्याम वरुण प्रि॒यासः᳚ ॥
▶ पदपाठः (Word-by-word)
कि॒त॒वासः᳚ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा᳚ । ता । वि । स्य॒ । शि॒थि॒रा॑इ᳚व । दे॒व॒ । अध᳚ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कितवासः कितवाद्युतकृतः किंतवास्ति सर्वं मयाजितमितिवदतीतिकितवः नदीवि नदेवने द्यूते यथायद्रिरिपुः लेपयन्ति पापमारोप- यन्ति यदस्मासु द्वेष्टारोमयि त्वमेतत्पापमकरोरित्याक्षिपन्ति अत्र पुरस्तादुपचारोपिनकारउपमार्थीयः वा अथवा घेतिपूरणः यत्पापंस- त्यं आरोपमन्तरेणकृतवन्तःस्म उत अपिच यत्कृतंपापं नविद्म नजानीमः ता तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिलबन्धना- निफलानीव विष्य मोचय स्यतिरुपसृष्टोविमोचने हेदेव अध अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥

इन्द्राग्नीयमितिषळृचंचतुर्दशंसूक्तं अत्रेरार्षमानुष्टुभमैन्द्राग्नं षष्ठीविराट्पूर्वा आद्यौदशकावष्टकास्त्रयइतिपरिभाषितत्वात् तथाचानुक्रा- न्तम्-इन्द्राग्नीषळैन्द्राग्नमानुष्ठुभंविराट्पूर्वान्तमिति विनियोगोलैंगिकः ।